OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, January 18, 2020

क्रिकेट् - भारतस्य ३६ धावनाङ्कानां विजयः।
    राज्कोट्> भारत-आस्ट्रेलियदलयोः एकदिनक्रिकेटपरम्परायाः द्वितीयक्रीडायां भारतदलेन आस्ट्रेलियदलं ३६ धावनाङ्‌कैः पराजितम्। अनेन जयेन त्रयाणां क्रीडाणां परम्परायां भारतदलं (१-१) तुल्यतां प्रापत्। प्रथमक्रीडनं कृत्वा भारतदलेन ६ क्रीडकानां नष्टेन ३४० धावनाङ्काः प्राप्ताः। भारताय शिखर् धवान् (९६), राहुल् (८०), कोह्लिः(७८), रोहित् शर्मा (४२) च उत्तमप्रकटनम् प्रादर्शयन्। प्रतिक्रीडनवेलायाम् आस्ट्रेलियदलं ३०४ धावनाङ्काभ्यन्तरे निष्कासयत्। आस्ट्रेलियदलाय स्टीवन् स्मित् (९८), लबूषेन् (४६), फिञ्च् (३३), आगर् (२५) इत्येतेषां प्रकटनं विजयाय पर्याप्तम् नाभवत्। भारताय षमी(३), सैनी(२), जडेजः(२), कुल्दीप्‌ यादवः(२) च उत्तमरीत्या कन्दुकक्षेपणम् अकुर्वन्। परम्परायाः अन्तिमा क्रीडा रविवासरे बङ्गलुरु मध्ये भविष्यति।