OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, September 1, 2023

 कण्वनगर्यां विश्वसंस्कृतदिवसोपलक्ष्ये शोभायात्राया: अभवत् आयोजनम्।

शोभायात्रायां गुञ्जितस्तोत्रेण दर्शका: मोहिता: अभवन्

आधुनिकसङ्गणकयुगे संस्कृतभाषा महत्त्वपूर्णा-'पंकजध्यानी'


वार्ताहर:-कुलदीपमैन्दोला। उत्तराखण्डं।

  रक्षाबन्धनस्य पावनपर्वणि परमार्थनिकेतनगुरुकुलकण्वाश्रमकोटद्वारस्य संस्कृतभारतीकोटद्वारस्य च संयुक्ताश्रयेण संस्कृतदिवसस्य अवसरे प्रातःकाले सर्वे ब्रह्मचारिणः गायत्रीमन्त्रसूर्यदेवस्य ध्यानं कृत्वा यज्ञोपवीतसंस्कारे यज्ञोपवीतं धृतवन्त:  विद्यालयस्य मुख्याध्यापकस्य श्रीमनमोहननौटियालस्य निर्देशानुसारं सर्वे छात्राः, आश्रमवासिनः, अभिभावकाः च हवनं कृतवन्तः। संस्कृतदिवसस्य कार्यक्रमे छात्रैः श्रीमद्भागवद्गीता  अन्त्याक्षरी, आशुभाषणं, श्लोक-पाठ: तथा नृत्यादिकं प्रस्तुतं । आचार्यमनमोहननौटियालः अस्मिन् अवसरे उक्तवान् यत् संस्कृतभाषा भारतस्य आत्मा अस्ति, भारतस्य प्रतिष्ठा केवलं संस्कृते एव वर्तते। संस्कृतं प्रति छात्राणां उत्कर्षः क्षीणः भवति, सः एकस्मिन् दिने चिन्तनीयः प्रश्नः अस्ति। वयं भारतीयाः सनातनीया: स्मः ये सर्वेषां हिताय प्रार्थयामः।

     संस्कृतभारत्या: जनपदप्रचारक: आचार्यसिद्धार्थनैथानी इत्यनेन उक्तं यत् “भारतस्य प्रतिष्ठे द्वे संस्कृतं संस्कृतिस्तथा” संस्कृतभाषा राष्ट्रस्य प्रगतेः कृते आवश्यकी अस्ति। अस्माकं पुराणोपनिषद: जीवनस्य पाठं शिक्षयन्ति यत् जीवनं कथं सार्थकं कर्तव्यम् इति। भवतु 'वसुधैव कुटुम्बकम्' इति उक्तिः वा 'सह नाववतुः सह नौ भुनक्तुः' इत्यादय: परम्पराः, अस्मान्  एकस्मिन् सूत्रे विना किमपि भेदभावेन परिवारवत् एकत्रितं करोति । 

     संस्कृतजिल्लासंयोजकः पंकजध्यानी अवदत् यत् संस्कृतभारती संस्कृतं पुनः वाच्यभाषां कर्तुं प्रवृत्ता अस्ति।  १९८१ तमे वर्षे सम्पूर्णे विश्वे संस्कृतभाषायाः पुनरुत्थानाय एतस्या:  संस्थायाः स्थापना कृता । संस्कृतं भारतस्य अतीव प्राचीनभाषा अस्ति किन्तु दुर्भाग्येन आधुनिककाले अस्याः उपेक्षा क्रियमाणा वर्तते।  आधुनिकसङ्गणकयुगे संस्कृतभाषा महत्त्वपूर्णा अस्ति ।