OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, September 1, 2023

 पाणिनिसंस्कृतविश्वविद्यालये विशिष्टव्याख्यानं सञ्जातम्॥

  -वार्तासंयोजक: डॉ.दिनेश:चौबे

    


उज्जयिनीस्थ-महर्षिपाणिनि -संस्कृतवैदिकविश्वविद्यालयस्य संस्कृतशिक्षणप्रशिक्षणज्ञानविज्ञान -संवर्धनकेन्द्रस्य तत्त्वावधाने संस्कृतसप्ताहसमारोहम् उपलक्ष्ये असप्ताहं यावत् केन्द्रेण नानाविदुषां विशिष्टव्याख्यानानि आयोज्यन्ते। अगस्तमासस्य 28-दिनाङ्कतः सितम्बरमासस्य 3-दिनाङ्कं यावत् अस्य कार्यक्रमस्य आयोजनं भवति। समारोहस्य उद्घाटनं 28 तमे दिनाङ्के अभूत्। कार्यक्रमस्य पञ्चमदिवसे शास्त्रसंरक्षणोपाया: इति विषये विशिष्टव्याख्यानं सञ्जातम्।अस्मिन् कार्यक्रमे काशीहिन्दुविश्वविद्यालयस्य संस्कृतविद्याधर्मविज्ञानसङ्कायस्य आचार्यः प्रो. व्रजभूषणओझा महोदय: मुख्यवक्तृरूपेण उपस्थित: आसीत् ।

    गुरुकुलमाध्यमेन अस्माकं शास्त्राणि रक्षितानि भवेयुः। व्यवहारिकरूपेण आयुर्वेदादिशास्त्राणि कथं प्रयुक्तानि भवेयुरिति चिन्तनीयमस्माभिः। न कण्ठस्थीकरणेन अपि तु व्यवहारेणैव शास्त्राणां संरक्षणं भवेत्। शास्त्ररक्षणाय इतोऽपि नानाविधान्युपायानि तेन उक्तानि, यानि युट्युब्-मध्ये उपलभ्यते, भवद्भिः तत्रैव श्रूयताम्।

   कार्यक्रमस्य आदौ वैदिकमङ्गलाचरणं तदनु विश्वविद्यालयस्य कुलगानं च अभवत्। व्याख्यानसत्राणां सत्राध्यक्षरूपेण विश्वविद्यालयस्य माननीयः कुलपतिः प्रो. सि. जी. विजयकुमारमेननमहोदयः आसीत्। महोदयेन सभा सम्बोधिता संस्कृतसप्ताहसमरोहस्य शुभकामनाः च प्रदत्ता। कार्यक्रमसंयोजकः वेदव्याकरणविभागाध्यक्ष:, डॉ.अखिलेशकुमारद्विवेदीमहोदय: वर्तते। कार्यक्रमस्य सञ्चालनं डॉ.दिनेशचौबेमहोदयेन, आभारप्रदर्शनं डॉ. शङ्करबेरामहोदयेन कृतम्। कल्याण मन्त्रेण सह सभा समाप्ता जाता।