OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, September 1, 2023

  संस्कृतं भारते एव न अपि तु विदेशेषु अपि भाष्यते- कुलदीपमैन्दोला  

     संस्कृतभारतीपौडी इत्यस्य सहसंयोजकः कुलदीपमैन्दोला छात्रान् संस्कृतभाषायाः, वेदभाषायाः संस्कृतस्य च महत्त्वस्य विषये अवदत् यत् संस्कृतं न केवलं गुरुकुले अपितु समाजे  अपि अस्ति । संस्कृतं भारते एव न अपि तु विदेशे अपि पठ्यते। अमेरिका, जर्मनी, फ्रान्स, वियतनाम इत्यादिषु विदेशेषु विद्यालयेषु अपि अस्य अध्यापनं प्रचलति। 1983 तमे वर्षे आदिशङ्कराचार्येन संस्कृतभाषायां प्रथमं चलच्चित्रं निर्मितम्, येन अनेके राष्ट्रियपुरस्काराः प्राप्ताः।

      भगवद्गीता, महाभारतं, रामायणं इत्यादीनि अनेकानि नामानि परिगणयितुं शक्यन्ते। अधुना अनेकेषु दूरदर्शनमालायां संस्कृतस्य स्थानं दीयते । केन्द्रीयसंस्कृतसंस्था यूट्यूब-फेसबुकादि-माध्यमेन लघु-चलच्चित्र-निर्माण-आदि-बहुभिः कार्यक्रमैः संस्कृतस्य प्रचारं कुर्वती अस्ति । संस्कृतं शिक्षितुं अद्यत्वे अस्माकं स्मार्त्जंगमवाण्यां प्लेस्टोर इत्यत्र 'संस्कृतकल्पतरु:', 'संस्कृतसम्भाषणं' इत्यादयः बहवः अनुप्रयोगाः वर्तन्ते।

    कण्वनगर्यां कण्वाश्रमत: कलालघाटीपर्न्तं सायंकाले संस्कृतभारत्याः आश्रयेण कार्यकर्तारः गुरुकुलस्य छात्राः च नगरे संस्कृतस्य प्रचारार्थं संगोष्ठीम् आयोजयित्वा संस्कृतदिने शोभायात्राम् अकुर्वन्। शोभायात्रायां छात्राः - अभिमन्युः शिवाङ्गः च संस्कृतगीतानि गायन्ति स्म - मनसा सततं स्मरणीयं च सुरससुबोधविश्वमनोज्ञा, अङ्कुशपाण्डेयः भार्गवश्च शिवताण्डवं शिवपञ्चाक्षरस्तुतिं च गायन्ति स्म, सायंकाले भ्रमणं कुर्वन्तः जनाः अपि च परितः जनाः अपि गानम् सहैव आरब्धवन्तः ते।

  आचार्य: नीरजहिन्दवानः जयतुसंस्कृतम् - जयतु भारतम्, जयतु - जयतु संस्कृतभाषा, प्रधानमंत्री मोदी वदति संस्कृतभाषा, राज्यसभायां संस्कृतभाषा इत्यनेन जयघोषेण  संस्कृतदिवसस्य विषये जनान् अवगतं कारितवान् ।कण्वाश्रमतः प्राप्तस्य सभायाः पुनः कलालघाटीपर्यन्तं समाप्तिः अभवत्। शोभायात्रा अत्र दर्शनीया आसीत्  ।  आचार्य: अरविन्दः शोभायात्राकार्यक्रमस्य फेसबुक् इत्यादिषु त्वरितप्रसारणं कृतवान् । प्रवक्ता रोशनबलूनीवर्य: स्वकीयवक्तव्ये समेभ्य: संस्कृतबान्धवेभ्य: शुभकामनाम् अयच्छत् । अवसरेस्मिन् आशीषनैथानी, राकेश:, कमलेश:, योगीराज:, हिमांशु:, विष्णु: आदय: छात्रा:  उपस्थिता: आसन् ।