OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, June 30, 2017

राष्ट्रपतिनिर्वाचनं - द्वे विहाय सर्वाः पत्रिकाः निरस्ताः।
 राष्ट्रपतिनिर्वाचनार्थं समर्पिताः त्रिनवतिस्थानाशिनां नामनिर्देशपत्रिकाः सूक्ष्मपरिशोधनानन्तरं निरस्ताः। एन् डी ए स्थानाशी रामनाथकोविन्दः , संयुक्तविपक्षस्थानाशिनी मीराकुमारः इत्येतयोः पत्रिके एव साध्व्यौ अभवताम्। अन्येषां कृते राष्ट्रपतिस्थानाशिनं भवितुम् अावश्यकः जनप्रतिनिधीनां सहयोगः न लब्धः इत्यत एव ९३ पत्रिकाणां निरासस्य कारणम्।
श्वः आरभ्य भारते एकीकृतकरः।
नवदिल्ली > अद्य अर्धरात्रौ भारतसंसद्मन्दिरस्य सभामण्डपः अन्यस्मै चरित्रमुहूर्ताय साक्षीभूयते। एकराष्ट्रम् एकशुल्कम् इत्यस्य लक्ष्यस्य समारम्भः क्रियते तत्र।
     श्व आरभ्य भारतम् एकीकृतपण्यसेवाकरपरियोजनायाः अधीने भविष्यति। अद्य रात्रौ एकादशवादनादारभ्य द्वादशवादनपर्यन्तं संसद्सभागारे आयोज्यमाने सविशेषसंसद्सम्मेलने अस्याः परियोजनायाः उद्घाटनं सम्पत्स्यते। उद्घाटनवेलायां राष्ट्रपतिः , प्रधानमन्त्री , उपराष्ट्रपतिः , वित्तमन्त्री च संसदीयान् अभिसम्बोधय़िष्यन्ति।  किन्तु कोण्ग्रस् नेतृत्वे विद्यमानानि विपक्षदलानि उद्घाटनसमारोहं बहिष्करिष्यन्तीति विज्ञापितम्।
उपराष्ट्रपते: निर्वाचनम्; दिनाङ्क: प्रख्यापित:।  
नवदिल्ली> नूतनस्य उपराष्ट्रपते: निर्वाचनाय दिनाङ्क:देशीयनिर्वाचनसमित्या प्रख्यापित:। आगस्ट् पञ्चमे प्रचाल्यमानस्य निर्वाचनस्य फलं तद्दिने एव प्रख्यापयिष्यति। इदानीन्तनस्य उपराष्ट्रपते: हमीद् अनसारि महाभागस्य सेवनकाल: आगस्ट् दशमे  परिसमाप्यते इति पश्चात्तले  नूतनम् उपराष्ट्रपतिम् निर्वाचयिष्यति। नवत्युत्तरसप्तशतम् सङ्ख्याकानि लोकसभाङ्गानि गुप्तनिर्वाचनपत्रद्वारा एव उपराष्ट्रपतिं चिन्वन्ति। जुलै सप्तदशे राष्ट्रपते: निर्वाचनमपि चलेत्। भा ज पा दलस्य स्थानार्थी रामनाथकोविन्द:, प्रतिपक्षस्थानार्थी  गतसभानियन्त्रिका अध्यक्षा मीरा कुमारश्च मत्सरिष्यन्ति
शिशवः युद्धेषु बलिमृगाः ।
कानिचन चित्राणि अस्माकं हृदयद्रवीकरण समर्थानिएव, सिरियायाम्  आरब्धे आभ्यन्तरयुद्धे  दुःखमयाः वार्ताः, चित्राणि च प्रतिदिनं आगच्छन्ति। युद्धस्य दुरितमखिलं सोढुं शिशवः न प्रभवन्ति। कश्चन राष्ट्रस्य भाविपथं पातयितुम् एवं  शक्यते एवं प्रकारेण। द्वितीये लोकमहायुद्धकाले, वियट्नां राष्ट्रयुद्धकाले रुवाण्डायाः वंशीय हत्यायां अपि च अरब् क्षेत्रे इदानीं जायमाने आभ्यन्तर-संग्रामे शिशवः बहुदुखम् सेढवन्तः। इदानीं पश्चिमेष्यायाः राष्ट्रान्तरतः आगम्यमानानि चित्राणि बालकानां दुरितस्य प्रमाणानि एव।
 (चित्रम् - मेडिट्टरेनियायाः सागरतीरे मृतस्य त्रिवयस्कस्य शरीरम्।)
क्रीडया विनोदेन च वर्तिष्यमाणाः शिशवः युद्धेषु स्वजनानां मृत्युं पश्यन्ति। क्षुधया पीडिताः भूत्वा स्वगृहं राष्ट्रं च परित्यज्य गन्तुं निर्बन्धिताः अभवन्।  इदानीं अभयार्थिरुपेण कालयापनं कर्वन्तः सन्ति। तेषाम् अश्रूणि अपि लोकैः द्रष्ठव्यम्।

Thursday, June 29, 2017

नियमभेदः कारितः आधार पत्रं पान् पत्रेण सह बन्धनीयः।
नवदेहली> करदायिनः जूलाई प्रथमदिनाङकादारभ्य  आधार पत्रं  पान् पत्रेण सह अनिवार्यतया  बन्धनीयमिति सर्वकारेण व्यक्तीकृतम्। पान् पत्राय आवेदनवेलायां आधारपत्रस्य अङ्काणि दातव्यानि। आर्थिककर नियमे भेदक्रमं कारयित्वा विज्ञापनं प्रसार्य च केन्द्रसर्वकारः कार्यकरणं कर्कशं कारितम्। नैकानांंपान्पत्राणां उपयोगः एकेन क्रियते चेत् तत् रोद्धुमेव अयं निर्णयः। नियमः जूलाई प्रथमदिनाङकादारभ्य प्रबलः भविष्यति। २.०७ कोटि करदातृभिः पानपत्रेण सह आधार पत्रस्य बन्धनं कृतम्। राष्ट्रे पञ्चविंशति कोटि जनानां पान्पत्राणि सन्ति।। १११ कोटि जनाः आधारपत्रं स्वीचक्रुः।
एष्यायां विद्यमानासु अतिबृहत्तमां युद्धनौकां चैना जले अवारोहयत्।
षाङ्हाय्>भारतं विस्मयीकारयित्वा चीनया  स्व बृहती युद्धनौका जले अवरोहितम्। ऐषियाः बृहत्तरा युद्धनौका टैप् ०५५ विनाशकारिणी युद्धनौका चैनया  षाङ्हाय् तीरे प्रदर्शितम्। एतादृश्यः चतस्रः युद्धनौकाः निर्मातुं चैनायाः योजना अस्ति। मिसैल् शस्त्राणि त्रोटयितुं तथा बृहद् लक्ष्यं भेत्तुं च युद्धनौका समर्था। एवम् अतिरिच्य सम्पूर्णतया शस्त्राणां विन्यासानन्तरं तस्याः १२००० टण् भारः स्यात्। विश्वस्य अतीव विनाशकारिण्याः युद्धनौकायाः निर्माणं इदानीं यावत् चैना सेना अगोपयत्। ह्रस्वेन कालेन अस्य निर्माणं पूर्तीकृतम् इति चैना माध्यमैः प्रस्तुतम्।

मोदिनः यु एस् सन्दर्शनं - आगोलप्रवेशयोजनां प्रति भारतस्य अङ्गत्वम्
वाषिङ्टण्> आकस्मिकावश्यार्थं अमेरिक्कां प्रति प्रवेशः सुकरं कर्तुम् उद्दिष्टमानायां "International Expedited Traveler Initiative" नामिकायाम् आगोलयोजनायां भारताय अपि अङ्गत्वं लब्धम्। भारतं विना स्विट्सर्लान्ट्, ब्रिटन् राष्ट्रद्वयमेव अस्यां योजनायाम् अन्तर्भूतम्।
     अमेरिक्कां प्रति विभीषिकारहितान् तथा पूर्वमेव यात्रानुमतिं लब्धवतां यात्रिकानाम्  अनया योजनया प्रवेशः सुकरः भविष्यति। व्यापार - शैक्षिक बन्धानाम् अभिवृद्धये योजनेयं उपकरिष्यति।
. रक्षासमिति स्थिराङ्गत्वम् - भारताय सहयोगः।
वाषिङ्टण्> ऐक्यराष्ट्ररक्षासमित्यां स्थिराङ्गत्वलाभाय आणववितरणसङ्घप्रवेशाय [एन् एस् जि अङ्गत्वं] च भारताय अमेरिक्काराष्ट्रस्य सहयोगः वाग्दत्तः। प्रधानमन्त्रिणा नरेन्द्रमोदिना सह मेलने डोणाल्ड् ट्रम्प एव भारताय सहयोगं वाग्दत्तवान्।
      राष्ट्रद्वयस्य  परस्परवाणिज्यबन्धः शक्तीकरिष्यतीति ट्रम्पेन उक्तम्। भारतस्य सामाजिकार्थिकपरिवर्तनेषु मुख्ययोजनासु च यू एस् राष्ट्राय प्रमुखं स्थानं कल्पतेति मोदिना निगदितम्।
.

.

Wednesday, June 28, 2017

Episode-50
 आकाशे भारतस्य त्रयोदश गुप्तचरनेत्राणि।
      नवदिल्ली> कार्टोसाट् २ ई उपग्रहस्य सफलविक्षेपणेन सैनिकावश्यकतायै भारतेन विक्षेपितानाम् निरीक्षणोपग्रहाणां सङ्ख्या त्रयोदश अभवन् इति ऐ एस् आर् ओ सूचयति। एतानुपयुज्य राष्ट्रसीमानां निरीक्षणम्, समुद्रमार्गेण भौममार्गेण वा शत्रूणां चलनानि च अवगन्तुं शक्यते इत्यपि ऐ एस् आर् ओ वृत्तानि ज्ञापयति। कार्टोसाट्, रिसाट् उपग्रहा: एव प्राधान्येन निरीक्षणाय उपयुज्यन्ते। नाविकसेनया एतानतिरिच्य जीसाट् सप्त उपग्रहश्च सैनिकावश्याय उपयुज्यते। समीपकाले विक्षेपितस्य कार्टोसाट् २ परम्परान्तर्गतस्य निरीक्षणोपग्रहस्य भूम्या: शून्यं दशांशं षट्  चतुरश्रमीटर् मितोन्नतवसतूनि अपि कृत्यतया निरीक्षितुं शक्ति: वर्तते। गतशुक्रवासरे एव कार्टोसाट् परम्परान्तर्गतम् कार्टोसाट् २ उपग्रहम् भारतम् व्याक्षिपत्।  भारतस्य सर्वे  निरीक्षणोपग्रहा: भौमोपरितलात् द्विशतत: द्विशतोत्तरसहस्रं किलोमीटर् पर्यन्तं पोलार् भ्रमणपथे वर्तन्ते। कृत्यतया भूमिं निरीक्षितुम् एतत् सहायकरम्। किन्तु भारतस्य  उपग्रहवेधायुधानि विक्षेप्तुं शक्तिरस्ति तथापि बहिराकाशस्य सैनिकवत्करणे तात्पर्यं नास्तीत्यपि ऐ एस् आर् ओ शास्त्रज्ञा: व्यक्तीकृतवन्त:।
केरळे वृष्टिः शक्ता; बहुत्र नाशनष्टानि। 
कोच्ची >दक्षिणपश्चिमीयः मण्सूण् वर्षाकालः केरले शक्तः अभवत्। नदीषु जलवितानम् उद्गन्तुमारब्धम्। अतः तीरदेशवासिनां कृते जाग्रतानिर्देशः कृतः। दक्षिणजनपदेषु बहुत्र अतिवृष्ट्या मृत्पातः जातः। एरणाकुलं जनपदे मुवाट्टुपुष़ा प्रदेशे 'एम् सि रोड्' इति देशीयमार्गे भूपातेन होराः यावत् गतागतं स्थगितम्। बहूनि भवनान्यपि विशीर्णानि।
     झंझावातेन वृक्षशाखाः पतित्वा मार्गपार्शस्थितानां यानानां   क्षताः जाताः। आगामिनि दिनद्वये अपि वृष्टिः शक्ता भविष्यतीति पर्यावरण निरीक्षणकेन्द्रेण निगदितम्।

अतिवृष्टिः - केरले चतुर्षु जनपदेषु विद्यालयानाम् अद्य विरामः।
कोच्ची - केरले वर्षाकाले शक्ते सन्दर्भे बहुत्र जलोपप्लवेन यात्रादुरितमनुभूतम् इत्यतः एरणाकुलम् , इटुक्की , आलप्पुष़ा , कोल्लम् इत्येषु जनपदेषु विद्यालयानां जनपदाधिकारिभिः अद्य विरामः विज्ञापितः। आलप्पुषा जनपदे श्व अपि विरामः भविष्यति।

Tuesday, June 27, 2017

बाह्याकाशानुसन्धानं च मिलित्वा एकादशसम्मतपत्राणि भारत-पोर्चुगलमध्ये।  
लिसबण:> भारत-पोर्चुगलबन्धं दृढीकृत्य एकादशसम्मतपत्राणि। प्रधानमन्त्री नरेन्द्रमोदी पोर्चुगलप्रधानमन्त्रिणा अन्टोणियो कोस्टेऩ सह मेलनानन्तरमेव सम्मतपत्रेषु द्वावपि हस्ताक्षरं दत्तवन्तौ। बाह्याकाशगवेषणम्, द्वन्द्वकरग्राहनिवारणम्, नानोतन्त्रज्ञानम्, सांस्कारिकविनिमय: एतेषु रङ्गेषु सहकारधारणा कृता। पोर्चुगल- भारतवाणिज्यक्रयविक्रयारम्भसाङ्केतिकस्थानकस्यापि उद्घाटनम् मोदिना निरूढम्। शास्त्रसाङ्केतिकगवेषणेभ्य: चत्वारिंशत् लक्षं यूरोमितं रूप्यकाणां संयुक्तनिधि: च प्राख्यापयताम्।  भीकरविरुद्धप्रवर्तनेषु, वातावरणपठनेषु च सहकर्तुंम्  अपि धारणा कृता। त्रिराष्ट्रसन्दर्शनस्य प्रारम्भं कृत्वा प्रधानमन्त्री नरेन्द्रमोदी पोर्चुगलम् प्राप्तवान्। विमानपत्तने पोर्चुगलविदेशकार्यमन्त्री अगस्टो सान्टोस् सिल्वा तम् स्व्यकरोत्। पोर्चुगलं सन्दर्श्यमान: प्रथमभारतीयप्रधानमन्त्री एव मोदी। पोर्चुगलप्रधानमन्त्रिणा अन्टोणियो कोस्टेन सह मोदी चर्चामकरोत्। अस्मिन् वर्षे जनुवरिमासे कोस्ट: भारतं सन्दृष्टवान्। तदा आविष्कृतधारणापत्राणाम् पुरोगतिरपि ताभ्याम् अवलोकिता। सप्तदशशतके यदा गोवा पोर्चुगलाधीने आसीत् तदा प्रवृत्ते शासनापरपत्रविनिमयानाम् मुद्रितप्रतिकृतिरपि   अधिकारिण: मोदिने अदात्।  पोर्चुगलत: अमरीकाम् प्रति गच्छन् मोदी षड्विंशत्यां वाषिङ्टणे राष्ट्रपतिं ट्रम्पं मेलिष्यति। द्वावपि इदम्प्रथमतया साक्षान्मेलिष्यत:। केषाञ्चन वैयवसायिकसंस्थानाम् सी ई ओ (अधिकारिण:) अपि सन्दर्शनोत्सुक: मोदी। तत: सप्तविंशत्यां स: नेतरलान्डं गमिष्यति। डच्च् प्रधानमन्त्री मार्क् रूट्टेनामकं, राजानं विल्यम् अलक्साण्डरम् राज्ञीं माक्सिमां च सन्दर्श्य चर्चां करिष्यति।
जनान् क्लेशघट्टे पातयत: सर्वकारोद्योगस्थान् बन्धितुं  केरळस्य जाग्रताविभागेन पट्टिका सज्जीक्रियते।

  तिरुवनन्तपुरम्>जनानां क्लेशजनकान् सर्वकारोद्योगस्थान् बन्धितुं पट्टिका सज्जीक्रियते जाग्रताविभागेन ( विजिलन्स् )। जनैस्सह साक्षात् व्यवह्रियमाणेषु- आयकरविभाग:, यन्त्रवाहनविभाग:, निरीक्षणस्थानकानि (चेक् पोस्ट्), सामान्यविपणनविभाग:- एतेषु विभागेषु निरीक्षणम् आरभ्यते।  क्लेशकरान् उद्योगस्थान् अधिकृत्य  जाग्रताविभाग: सर्वकारस्य समीपम् आवेदयति। अत्याचारिण: ग्रहीतव्या: इति सर्वकारनिर्देशानुसारमेव जाग्रताविभागस्य निर्णय:। सामान्यजनानां कृते  क्लेशदायकानाम् उत्कोचग्राहकाणा निर्बन्धोपहारग्राहकाणां च पट्टिका जाग्रताविभागेन सज्जीक्रियते। ततोपरि अधिकनिवेदनं यं कार्यालयमधिकृत्य प्राप्नोति तस्य कार्यालयस्य विशदांशान् सङ्गृह्य सर्वकाराय समर्प्यते।  जेकब् तोमस: यदा जाग्रता विभागस्य अधिकारी आसीत् तदा  विविधविभागानाम् अत्याचारान् अधिकृत्य सूचिका सज्जीकृता आसीत्।  एतस्य अनुवर्तनमेव निर्णय:। विविधविभागानाम् अत्याचारान् निर्दिश्य निवेदनप्रलय: एव जाग्रताविभागस्य आस्थाने।  एतदाधारेण कृते अन्वेषणे ग्रामकार्यालयेषु एव अधिकक्रमभङ्ग: लक्षित:। मध्यस्थान् ग्रहीतुम् समग्ररूपरेखां निर्मातुं च मण्डलमेधाविभ्य: जाग्रताविभाग: निर्देशमदात्।  ग्रामकार्यालयेषु, गतागतविभागेषु, निरीक्षणकेन्द्रेषु च गतसप्ताहे प्रवृत्ते शोधनिरीक्षणे जाग्रताविभागेन अनेके क्रमदोषा: लक्षीकृता:।

Monday, June 26, 2017

वनम् पोषकसमृद्धमिति मध्यप्रदेशमन्त्रिणी अर्चना चिट्निस्।
  
षिल्लोङ्>वनम् पोषकसमृद्धं नास्ति चेत् सीताश्रीरामौ वर्षाणि यावत् कथं वनमध्ये उषितवन्तौ इति मध्यप्रदेशवनिताशिशुविकसनविभागमन्त्रिण्या: प्रतिप्रश्न:। राज्ये वनवासिनो जना: पोषकाहारापर्याप्तताम् अभिमुखीकुर्वन्तीति माध्यमप्रवर्तकस्य परामर्शं श्रुत्वैव पुराणमुपजीव्य प्रत्युत्तरम् अर्चना चिट्निस् अदात्। शुक्रवासरे षिल्लोङ् मध्ये प्रचालिते  पोषकाहारानुपलब्धि: कृषिरीतय: च  इति सङ्गोष्ठ्याम् भाषते स्म मन्त्रिणी। प्रादेशिकविभवान् खादित्वा पोषकाहारापर्याप्तताम्  परिहरेयुरिति विषये अवबोधजागरणाय एव सङ्गोष्ठी चालिता। स्वीयावश्यानि परिहृत्य मितानि भक्ष्यवस्तूनि एव कर्षका: विक्रयेयुरिति च पुराणमुद्धृत्य मन्त्रिणी व्यक्तमसूचयत्। महाभारतस्य कंसकृष्णयो: कथा कार्याणि विशदयितुं प्रेरिका अभवत् ।
आस्त्रेलियन् ओपण् बाड्मिन्टण् - श्रीकान्तः चरमपादे।
मेल्बण्> पिच्छकन्दुकक्रीडाङ्कणे अत्युज्वलं क्रीडाकौशलम् अनुवर्तमानः भारतपुत्रः किडम्बि श्रीकान्तः चीनायाः चतुर्थसीड् क्रीडकं षि युक्किं पराजित्य आस्ट्रेलियन् ओपण् सूप्पर् सीरीस् पिच्छकन्दुकक्रीडायाः [बाड्मिन्टण्] अन्तिमपादं प्रविष्टः। चीनायाः चेन् लोङः श्रीकान्तस्य प्रतियोगी भविष्यति।
    पूर्वं सिङ्कप्पूर् ओपण् तथा इन्डोनेष्यन् ओपण् क्रीडयोः चरमपादमपि श्रीकान्तेन प्रविष्टः।
मोदी-ट्रम्प् मेलनम् अद्य।
वाषिङ्टण्> त्रिराष्ट्रसन्दर्शनस्य अंशतया अमेरिक्कां प्राप्तः भारतप्रधानमन्त्री नरेन्द्रमोदी अमेरिक्काराष्ट्रपतिः डोणाल्ड् ट्रम्प्  इत्येतयोः मेलनम् अद्य सम्पद्यते। आगोलतले अस्मै मेलनाय महत्प्राधान्यं कल्प्यते।
    भारतस्याभिवृद्धिः यू एस् राष्ट्रस्यापि अभिवृद्धये भविष्यतीति भारतप्रधानमन्त्रिणा वाषिङ्टणे उक्तम्।

Sunday, June 25, 2017

  चीनायां भूपातः, १४० जनाः तिरोभूताः।
बेय्जिङ्> चीनाराष्ट्रे सिच्वान् प्रविश्यायां सिन्मो नामके ग्रामे दुरापन्नेन महता मृत्पातेन चत्वारिंशदुत्तरशताधिकं जनाः तिरोभूताः अभवन्। शनिवासरे प्रातः षड्वादने [प्रादेशिकसमयः] एव ग्रामस्थितस्य पर्वतस्य कश्चन भागः निपतितः। ४६ गृहाणि सार्धैककिलोमीटर् परिमितः मार्गश्च विनाशं प्राप्तानीति तद्देशीयाभिः वार्तापत्रिकाभिः ज्ञायते।
    दिनानि यावत् अनुवर्तमाना वृष्टिरेव पर्वतनिपातस्य कारणमिति अभिज्ञैः सूच्यते।
सिख् वंशजा कानडायाम् परमोन्नतनीतिपीठे न्यायाधीशा।
कानबरा>मनुष्यावकाशप्रवर्तिका  सिख् वंशजा अभिभाषिका  पलवीन्दर कौर् षेरलिङ् कानडायाम् परमोन्नतनीतिपीठे न्यायाधीशत्वेन नियुक्ता। इदम्प्रथमतया एतादृशपदवीम् प्राप्ता सिख् वंशजा  इयमेव। मई एकत्रिंशत्तमे  विरमितस्य न्यायाधीशस्य अरनोल्ड् बेय्लि महाशयस्य स्थाने एव एतस्या: नियुक्ति:। नीतिन्यायविभागमन्त्रिणा जोडी विल्सण् रेबोल्डेन नियमनम् प्रख्यापितम्।
त्रिराष्ट्रसन्दर्शनं - नरेन्द्रमोदी अद्य अमेरिक्कां प्राप्नोति। 
नवदिल्ली - यू एस् , पोर्चुगल् ,नेतर्लान्ट् इत्येतानि राष्ट्राणि सन्द्रष्टुं प्रस्थितः भारतप्रधानमन्त्री नरेन्द्रमोदी पोर्चुगालस्न्दर्शनं समाप्य अद्य प्रातः यू एस् राष्ट्रं सम्प्राप्नोति। सोमवासरे अमेरिक्काराष्ट्रपतिना डोणाल्ड् ट्रम्पेन सह मेलनं भविष्यति। मोदी-ट्रम्पयोः प्रथमं मेलनं भवतीदम्।
   शनिवासरे सायं पोर्चुगालं प्राप्तं मोदिनं विदेशकार्यमन्त्री अगस्टो सान्टोस् सिल्वा गुजरातीविभवैः स्वीकृतवान्। तदनन्तरं नरेन्द्रमोदी पोर्चुगालप्रधानमन्त्रिणा भारतवंशजेन अन्टोणियो कोस्टा वर्येण सह मेलनं कृतवान्। परस्परव्यापार निक्षेपादिविषयेषु चर्चां कृत्वा सम्मतिपत्रेषु हस्ताक्षरमपि कृतवान्।

Saturday, June 24, 2017

अफ्गानिस्थान-अयर्लान्ट् राष्ट्राभ्यां निकषदलपदप्राप्तिः। 
लण्टन् > अफ्गानिस्थानाय अयर्लान्ट् देशाय च क्रिक्कट् क्रीडामण्डले निकषदलपदं दातुं अन्ताराष्ट्रक्रिक्कट् समित्याः [ऐ सि सि] सांवत्सरिकोपवेशने निर्णयः अभवत्। अनेन निकषदलानां संख्या द्वादश अभवत्। अफ्गानिस्थानः अयर्लीन्टः च यथाक्रमं एकादशं द्वादशं निकषदलं भविष्यति।
     आभ्यन्तरक्रिक्कट्क्रीडायाः परिपोषणाय राष्ट्रद्वयेनापि कृतानि परिष्करणानि निकषपदप्राप्त्यर्थं सुकराण्यभवन्।
समाजमाध्यमानि निरीक्षितुं केन्द्रं सन्नद्धतां करोति।
      नवदिल्ली >भारतविरुद्धप्रचारणाय समाजमाध्यमानां दुरुपयोगं कुर्वन्ति वेति निरीक्षितुं केन्द्रसर्वकार: संविधानं करोति। सुरक्षादलानाम्  आभ्यन्तरमन्त्रालयस्य च मेलनं देहल्यां प्रचाल्य एतस्य विशदांशान् अधिकृत्य चर्चामकरोत्।  अधुना समाजमाध्यमेभ्य:  सुशक्तनियन्त्रणानि  न सन्ति। एतस्य कृते  सुव्यक्तमार्गनिर्देशानां रूपीकरणमेव लक्ष्यम्। राष्ट्रतात्पर्यं विरुद्ध्य समाजमाध्यमानि उपयोक्तुं  काश्चन भीकरसङ्घटना: श्रमं कृतवत्य: इति साहचर्ये केन्द्रनयस्य प्राधान्यं वर्तते।
भारताय अमरीकाया: 22 अतिलघु विमानानि।
          वाषिङ्टण्>भारताय द्वाविंशति:  रक्षाकर्तृड्रोणराणि विक्रेतुम् अमरीका अनुमतिं अदात्। प्रधानमन्त्रिण: नरेन्द्रमोदिन: अमरीकासन्दर्शनात् पूर्वमेव उभयकक्षिबन्धं दृढीकरणस्य भागत्वेन एवम्। निर्णयमेतत् भारतसर्वकारं ड्रोणर् निर्मातॄन् च अमरीकाया: राज्यविभाग: सूचनामकरोत् इति सर्वकारवृत्तानि सूचितानि  किन्तु एतस्मिन् औद्योगिकप्रख्यापनं  नागतम् त्रिशतं कोट्या:विनिमयोयम्। सामान्यस्वमिश्रडोणराणि   भारताय दीयते ।भारतेन सह सुशक्तबन्धं प्रबलं कर्तुम्  ट्रन्प् शासनकूटस्य रीतिरियम्। एतानि सम्बद्ध्य प्रश्नान् प्रतिकर्तुं  श्वेतगृहेण राज्यविभागेन वा सन्नद्धतां न प्राकटयत्। औद्योगिकप्रख्यापनं शाघ्रमागच्छेत्।
केन्नत्त् जस्टर् भारते यू एस् स्थानपतिः।
वाषिङ्टण् >अमेरिक्कायाः राष्ट्रपतेः डोणालेड् ट्रम्पस्य आर्थिककार्यसमित्याः प्रमुखः 'केन्नत्त् जस्टर्' नामकः तस्य राष्ट्रस्य स्थानपतिरूपेण भारते नियुक्तः भविष्यति। भारतज्ञः सः ट्रम्पस्य अन्ताराष्ट्र - आर्थिककार्यसमित्याः तथा देशीयसम्पत्समित्याः च उपनिदेशकः भवति। जस्टरस्य नियुक्तये 'सेनट्' सभायाः अङ्गीकारः प्रतीक्षते।भूतपूर्वभारतस्थानपतेः  रिच्चड् वर्मणः स्थाने एवास्य नियुक्तिः।

Friday, June 23, 2017

यू एन् राजधान्यां योगदिनाचरणं, सविशेषमुद्राप्रकाशनं च।
न्यूयोर्क्> तृतीयम्  अन्ताराष्ट्रयोगदिनारणं जलपूजासहितम् ऐक्यराष्ट्रसभायाः राजधान्यां संवृत्तम्। दिनाचरणं पुरस्कृत्य विविधयोगाभ्यासरीतिनां चित्राणि , देवनागरिलिप्याम् "ऊँ" इति च आलेखनं कृतवत्यः मुद्राः प्रकाशिताः च।
      मङ्गलवासरे यू एन् आस्थाने संवृत्ते "योगाचार्यैः सह योगाभ्यासः" इत्यस्मिन् कार्यक्रमे नानाराष्ट्राणां यू एन् स्थिराङ्गाः,  नयतन्त्रप्रतिनिधयः, यू एन् कार्यालयसेवकाः इत्यादयाभिव्याप्ताः सहस्राधिकाः जनाः भागभाक्त्वं स्वीकृतवन्तः।
     हृषिकेशे परमार्थनिकेतन आश्रमात् स्वामी चिदानन्दसरस्वती , साध्वी भगवती सरस्वती इत्येतयोः नेतृत्वे जलपूजा संवृत्ता। सर्वेभ्यः शुद्धजलं लभतामिति प्रार्थनया आदर्शभूगोलस्य उपरि जलधारां कृत्वा प्रतीकात्मतया पूजा कृता।
     'स्वस्थे शरीरे स्वस्थं मनः' इति उक्तिः योगाभ्यासेन साक्षात्क्रियते इति यू एन् सामान्यसभाध्यक्षेन पीटर् तोम्सण् वर्येण उक्तम्।
 राष्ट्रपतिप्रत्याशिनः घोषणा
नव देहली-राष्ट्रपतिनिर्वाचनमालक्ष्य पक्षविपक्षाभ्यां प्रत्याशिनः घोषणा विहिता। राष्ट्रियजनतान्त्रिकसंयुत्या  बिहारराज्यस्य प्राक्तन् राज्यपाल: रामनाथकोविन्द: प्रत्याशित्वेन समुद्घोषितः। अथ च संयुक्तप्रगतिशीलसंयुत्या कांग्रेसदलाध्यक्षाया: सोनिया- गान्धिन: नेतृत्वे पूर्व लोकसभाध्यक्षा मीराकुमारः प्रत्याशित्वेन प्रचिता। मीरायाः नामोद्घोषणंं विपक्षिदलानां सांकेतिकं विरोधं प्रकटयति, यतोहि  राष्ट्रियजनतान्त्रिकसंयुत्या पार्श्वे राष्ट्रपतिनिर्वाचनाय आवश्यकमतानि सन्त्येव। अतो विचारणीयोSयं यत् विपक्षेन किमर्थं रामनाथ कोविन्दं विरुध्य मीरायाः नामोद्घोषितम् ।

प्रत्याशिद्वयस्य साम्यं वैषम्यम् च
दलितप्रतिनिधि:-

रामनाथकोविन्द: कर्णपुरस्य निवासी वर्तते।अतः कोविन्दस्य नामोद्घोषणेन केतिपय राज्येषु गतमासेषु रुष्टदलितजनानां मध्ये दलितहितसंरक्षकत्वेन छविनिर्माणमप्यस्ति कारणमेकम्, अतः तामेव पद्धतिमनुसृत्य संयुक्तप्रगतिशीलसंयुत्या अपि दलितप्रतिनिधित्वेन मीराकुमारः प्रचिता अनेन निर्णयेन संयुक्तप्रगतिशीलसंयुत्या दलितविरोधी छवि: न भविष्यति ।

सौम्य स्वभाव: -
एतयो: द्वयो: प्रतिनिधयो: चरित्रं विवादहीनमस्ति।
उभयोः राजनैतिकं जीवनम् अपि ऊहापोह रहितं स्पष्टं च वर्तते |
मीराकुमार् महाभागा विपक्षिदलस्य राष्ट्रपतिस्थानाशिः।
नवदिल्ली > राष्ट्रपति निर्वाचने सामान्यस्थानाशीरूपेण पूर्वतनलोकसभाध्यक्षा मीराकुमार् महाभागा विपक्षि दलैः प्रख्यापिता।  दिल्यां विधानसभागृहे आयोजिते विपक्षिदलानां मेलने एव प्रख्यापनमभवत्। काण्ग्रस् अध्यक्षायाः सोणियागान्धिनः आध्यक्ष्ये आयोजिते मेलने षोडशसंख्याकानां  राजनैतिकदलानां प्रतिनिधयः भागं स्वीकृतवन्तः।  मीराकुमार् महाभागायाः नाम्ना सह अम्बेद्कर् महोदयस्य पौत्रः प्रकाश् अम्बेद्करस्य नामापि परिगणनायाम् आसीत्।
दण्डनम् अनुभोक्तव्यमेव; न्यायाधीशस्य कर्णस्य अपेक्षा अवक्षिप्ता।
  नवदिल्ली> न्यायालयालक्ष्याय  परमोन्नतनीतिपीठेन षण्मासं यावत् कारागारवासेन दण्डित:  कोलकत्ताराज्यन्यायालयस्य पूर्वन्यायाधीश: सी कर्ण:   दण्डनम् अनुभवेदिति  परमोन्नतनीतिपीठ:। लब्ध: षाण्मासिककारागारवास: निरोद्धव्य:, तथा मध्यवेलाजाम्यं च दातव्यमिति सूचयित्वा तेन समर्पिता हरजीं (न्यायापेक्षां)  अवक्षिप्यैव  परमोन्नतनीतिपीठस्य मध्यवेलोत्पीठिकाया:निर्णय:।  अभिभाषकेन समर्पिता न्यायापेक्षा  न्यायालयेन अवक्षिप्ता। सर्वोन्नतन्यायाधीशयुता  सप्ताङ्गोत्पीठिका  एव दण्डनम् व्यदधात्। इत: परम् प्रत्येकोत्पीठिकया एव  न्यायापेक्षा परिगणितुं साध्या इत्यपि न्यायालयेन व्यक्तीकृतम् ।  कर्णं कोलकत्ताया: प्रसिडन्सी कारागारं प्रेषयेत् , उन्नतारक्षकाधिकारिभि: सह कर्णं कोलकत्तां प्रापितवन्त: । मङ्गलवारे सायं षड्वादने जाते कर्णं तमिल्नाडु आरक्षकसाहाय्येन कोलकत्तारक्षका: गृहीत्वा बन्धितवन्त:। आरक्षकान् दृष्ट्वा  जस्टिस् कर्ण: तैस्सह रूक्षवाग्वादानन्तरमेव  नियन्त्रणविधेय: अभवत्। मई नवमदिनाङ्के एव परमोन्नतनीतिपीठस्य सर्वोन्नतन्यायाधीशस्य जे एस् खेहारस्य नेतृत्वे सप्ताङ्गोत्पीठिका कर्णस्य दण्डनं व्यदधात्। तत: आरक्षकेभ्य: रक्षाम् प्राप्य गुप्तचारी अभवत् स:। मद्रासराज्यन्यायालयस्य न्यायाधीशत्वेन प्रवर्तमाने, सहन्यायाधीशान् प्रति उन्नीतानि आरोपणानि  अनुवर्त्य कर्णं कोलकत्तान्यायालयं प्रति स्थानपरिवर्तनं कृतवन्त:। तत: परमोन्नतनीतिपीठस्थन्यायाधीशान् प्रति दण्डनं व्यदधात् इत्येतत् न्यायालयालक्ष्यनिर्णयाय कारणमभवत्। तन्मध्ये दण्डनं रोधितुं परमोन्नतनीतिपीठम् उपगतवान् चेदपि फलं नाभवत्।  न्यायाधीशं कर्णं ग्रहणविषये सहकार: न दत्त: इत्युक्त्वा बङ्गाल डी जी पी तमिल्नाड् आरक्षकान् प्रति रूक्षविमर्शं कृतवान्।

Thursday, June 22, 2017

योगस्य प्रशस्ति: चीनायाः उन्नतप्राकारेपि 
      योगद्वारा भारतयश: आलोकं व्याप्यमाने सन्दर्भेस्मिन् चैनाया: काचित् कौतुकवार्ता । जूण् एकविंशति: योगदिनत्वेन आघुष्यमाणे चैनाया: उन्नतप्राकारे प्रवृत्ते योगाभ्यासे  भागमूढवन्त: बहव: । भारतीया: चीनादेशीयाश्च तत्र भागमभजन्त । चैनाया: भारतनयतन्त्रविभाग: ( चैनीस् पीप्पिल् असोसियेषन् ) चीनाजनकीयसमित्या सह  संयुज्य प्रवर्तनमिदम् आयोजयत् । मङ्गलवासरे प्रात: उपद्वादशयोगाभ्यासिभि: उन्नतप्राकारे कृताभ्यासै: कार्यक्रमस्य आरम्भ: अभवत् । चैनायां योगप्रशस्तिवर्धनम् इति उत्तमलक्ष्येन  कार्यक्रम: आयोजित: । एतादृशकार्यक्रमा: भारतचीनासौहार्दस्य ऊष्मलतां वर्धयेयु:  तदर्थं सहायका: वा भवेयु: इति भारतमन्त्रालयेन व्यक्तीकृतम् । जूण् एकविंशत्यां योगदिने बीजिङ्मध्ये सहस्रं जना: योगाभ्यासे भागमभजन्त । एतस्मादुपरि भारतात् योगे समर्था: ऊनत्रिंशत् वयस्का: विंशति: अभ्यासिन:  बीजिङे तथा  चैनाया: अन्यनगरेषु च योगप्रचारणाय प्रवर्तितवन्त: ।चैनायां गणनानुसारं अष्टशतोत्तरदशसहस्रं (१०८००) योगविद्यालया: प्रवर्तन्ते ।
एकत्रिंशत् कृत्रिमोपग्रहाः श्वः बहिराकाशे।
Add caption
चेनै- भारतस्य कारटोसाट्ट् द्वि ई तथा त्रिंशत् नानो उपग्रहैः सह पी एस् एल् वी श्वः श्रीहरिकोट्टायाः विक्षेपणस्थानात् उद्गच्छति। प्रातः नवविंशत्यधिक नववादने अस्ति विक्षेपणम् । उपग्रहेषु नवविंशति विदेशराष्ट्राणाम् अन्तर्भवन्ति। एकः कन्याकुमारीस्थस्य नूरुल् इस्लां विश्वविद्यालयस्य भवति। द्वादशाधिकसप्तशत किलो भारयुक्तं कारटोसाट्ट् द्वि ई कारटोसाट्ट् परम्परायाः षष्ष्ठतमः  उपग्रहः  भवति। विदूर संवेदन सेवाः अस्य मुख्यं लक्ष्यं। तेन सह भौम निरीक्षणाय अपि उपयुज्यते।
पि एस् एल् वी इत्यस्य चत्वारिशत् तम विक्षेपणमिदम्। पञ्चाधिकपञ्चशत कि. मी उपरिस्थे सौरस्थिर भ्रमणपथे एतान् प्रेषयति। नानो उपग्रहेषु नवविंशति संख्यकाः आस्ट्रिया , बेल्जियम् , चिली , चेक् रिप्पब्लिक्, फिन्लाण्ड् , फ्रान्स् , जर्मनी , इट्टली, जप्पान्,लात्विया, लित्वेनिया, स्लोवाक्या, ब्रिट्टन्, अमेरिका  इत्यादि राष्ट्राणां भवन्ति। आहत्य त्रिंशत् उपग्रहाणां भारः त्रिचत्वारिंशदुत्तरद्विशत किलोमितः  भवति।
भारतीतीर्थस्वामिनं विधुशेखरस्वामिनं कालट्यां प्रोज्वलं स्वीकरणम्।
कालटी>शृङ्गेरि शारदापीठाधिपतिनं भारतीतीर्थस्वामिनं तथा नियुक्त अनुगामिनं विधुशेखरस्वामिनं च अद्वैतभूमौ भक्तिनिर्भरं स्वागतम्। अलुवातः रविवासरे सायं स्वामिनौ कालट्यां प्रापतुः। हर हर शङ्कर जय जय शङ्कर भेरिभिः स्वामिनौ स्वीचक्रुः।
रोजि एम् जोऩ् एम् एल् ए, के. तुलसी, पीजे जोई, जोस् तेट्टयिल्, टी पी रवीन्द्रन् इत्यादि प्रमुखाः स्वामिनौ स्वीकर्तुं आगतवन्तः।
स्वीकरणात् परं आश्रम वीथ्या शृङ्गेरीं प्रति घोषयात्रा आरब्धा। 'पुत्तन् काव्' 'मकरचोव्वा' महोत्सवसमितिः, कालटी एन् एस् एस्  'करयोगं', श्रीरामकृष्ण अद्वैताश्रमं च स्वागतं अकुर्वन्। स्वामिनोः शृड़्गेरी मन्दिरदर्शनानन्तरं विशिष्टे मञ्चे धूलीपादपूजा, स्वागतपत्रसमर्पणं, स्वामिनोः अनुग्रहभाषणं च अभवत्। शृड़्गेर्यां निर्मितस्य नूतनमन्दिरस्य उद्घाटनमपि स्वामिनौ अकुरुताम्। आगामिनि पञ्चदिनेषु प्रातः दशवादनादारभ्य सार्धद्वादशवादनपर्यन्तं भक्तानां दर्शनस्य अवसरः विद्यते। प्रतिदिनं रात्रौ सार्ध अष्ट वादने भारतीतीर्थस्वामिनः कार्मिकत्वेन चन्द्रमौलीश्वरपूजा भविष्यति। एकविंशतिदिनाङ्कात् त्रयोविंशतिदिनाङ्कपर्यन्तं सायं चतुर्वादने स्वामिनोः नेतृत्वे विद्वत्सदस्स् अपि भविष्यति। चतुर्विंशति दिनाङ्के स्वामिनौ तृश्शिवपेरूरं प्रति गमिष्यतः।

Wednesday, June 21, 2017

बिहारराज्याध्यक्ष: रामनाथकोविन्द: एन् डी ए दलस्य राष्ट्रपतिस्थानार्थी। 
 नवदिल्ली>बिहारराज्याध्यक्ष: रामनाथकोविन्द:  एन् डी ए दलस्य  राष्ट्रपतिस्थानार्थी  भविष्यति । काण्पूरत: आगत: दलितनेता भवति रामनाथ:। देशीयाध्यक्ष: अमित षा एव स्थानार्थिप्रख्यापनं कृतवान्।  प्रधानमन्त्रिण: नरेन्द्रमोदिन:  अध्यक्षतायां समावेशिते भा ज पा नियमनिर्माणसभामण्डलयोगे  (पार्लमेन्टरी बोर्ड् )  रामनाथस्य स्थानार्थित्वं निर्णीतम्। अस्मिन् मासे त्रयोविंशत्याम्  नामनिर्देशपत्रिका समर्प्यते। प्रधानमन्त्री नरेन्द्रमोदी सोणियागान्धिना मनमोहनसिंहेन च साकं चर्चां कृतवान् । दलेषु चर्चित्वा  निर्णयं ज्ञापयिष्यन्ति इति उक्तवन्त:  इत्यपि स्थानार्थित्वप्रख्यापनावसरे  अमित षा उक्तवान् ।  तथा च उपराष्ट्रपते: विषये कापि चर्चा न प्रवृत्ता  इत्यपि स: व्यक्तीकृतवान् । पञ्चचत्वारिंशदुत्तरनवशताधिकसहस्रतमे  ओक्टोबरमासस्य प्रथमदिनाङ्के  कानपुरे रामनाथसिंह: जनिम् प्राप्तवान् । कानपुरस्थसर्वकलाशालाया: बी कोम् , नियमबिरुदानि च प्राप्य  षोडशवर्षाणि यावत् देहली उन्नतन्यायालये तत: परमोन्नतनीतिपीठे च  अभिवक्तृपदवीमलङ्कृतवान्। अशीत्युत्तरनवशताधिकसहस्रत: त्र्यशीत्युत्तरनवशताधिकसहस्रपर्यन्तम् परमोन्नतनीतिपीठे केन्द्रसर्वकारस्य  स्टान्डिङ् कोण्सल् आसीत्।  उत्तरप्रदेशात्  राज्यसभाम् प्रति द्विवारं चित: (१९९४-२०००), (२०००-२००६)। पट्टिकजातिवर्गक्षेम:, आभ्यन्तरम्, सामाजिकनीति:, नियम:, पेट्रोलियम्  आदिषु विविधनियमनिर्माणसभासमितिषु अङ्गमासीत्। लक्नौस्थे बी आर् अम्बेदकरसर्वकलाशालाया:  प्रबन्धकमण्डले ,  कोलकत्तासर्वकलाशालाया:  अधिकारपदवीमण्डले  च अङ्गमासीत्। द्व्युत्तरद्विसहस्रे  ऐक्यराष्ट्रसभायाम्  भारतस्य प्रातिनिध्यम् अवहत्।  विवादेषु असन्निहित:, उत्तमप्रतिच्छायायुक्त: अयम्  रामनाथकोविन्द: स्त्रीभिः दलितैः एवं,  समाजस्य दुर्बलविभागैः सह स्थितवान्। लोकसभाङ्गेन प्रवर्तनसमये ग्रामीणमेखलायां शिक्षासौकर्यसज्जीकरणे स: विशेषश्रद्धां दत्तवान्। दुर्बलविभागानां स्त्रीणां च नि:शुल्क-नियमसहाय-दानप्रवर्तनेषु  नेतृत्वं दत्तवान् च।

Tuesday, June 20, 2017

डार्जिलिङे प्रक्षोभ: अनुवर्तते।
   
नवदिल्ली> डार्जिलिङे  रूक्ष: प्रक्षोभ: अनुवर्तते। शान्ततायै श्रम:। गूर्खा जनमुक्ति मोर्चया (जी जे एम्)  चाल्यमान: प्रक्षोभ: शक्तीकृत:। तदनुगत्य जना: शान्ता: भवन्तु इति प्रार्थनया केन्द्रमन्त्री राजनाथसिंह: च रङ्गम् प्रविष्ट:। भिन्नता: अबद्धधारणाश्च चर्चाद्वारा परिहर्तुं श्रम: करणीय: इति स: अभ्यर्थितवान्। डार्जिलिङ्ङस्य स्थितिगती: अधिकृत्य पश्चिमबङ्गालमुख्यमन्त्रिणा ममता बानर्जिना सह भाषणमकरोत् इत्यपि व्यक्तीकृतवान्।
 महर्षि वेदव्यास सम्मानेन भगीरथप्रसादत्रिपाठी सम्मानीतः 
नवदिल्ली >विश्वविख्यातसंस्कृतविदुषे प्रो. भगीरथप्रसादत्रिपाठीति वागीशशास्त्री वर्याय आजीवन संस्कृत-साहित्यक-साधनार्थं अपरोSप्येक: सम्मान: उपायनीक्रियते। असौ  दिल्ली-संस्कृत-अकादम्या: सर्वोच्च महर्षि वेदव्यास सम्मानेन "  सभाजयिष्यते। सम्मानोSयं सप्तदशाधिक द्विसहस्र तम वर्षस्य जूनमासस्य सप्तविंशे दिनांके तस्मै उपाहरिष्यते। सम्मानस्यान्तर्गतं एकपञ्चाशत् सहस्राधिक-एकलक्ष्यरूप्यकाणां राशिः संप्रदास्यते। अतः प्राग्  प्रो. शास्त्रीवर्य: राष्ट्रपति सर्टिफिकेट ऑफ ऑनर, कालिदाससम्मान:, विश्वभारतीसम्मान:, यशभारतीसम्मानश्चेति  विभिन्नपुरस्कारै: अपि समलंकृतो वर्त्तते।

प्रो शास्त्री अधुना यावत् संस्कृत-हिंदी-आंग्लम् चेति विभिन्न भाषासु पंचपंचाशन्मौलिकग्रन्थान् व्यरचयत्, अपि च द्विशताधिक पांडुलिपीनां संपादनम् अमुना विहितम्।  सम्प्रति चास्य मनीषिणः षड् ग्रन्था: मुद्राणाधीना:  सन्ति ।
अनेन रटनं विनैव संस्कृतप्रशिक्षणस्य नूतनविधेरपि आविष्कारो विहित:। येन विधिना भूरि जना: लाभान्विता: जाजायन्ते।

Monday, June 19, 2017

 पाक् अधिवेशनम्; अनधिकृत: दूरवाणीसङ्केत: (टेलिफोण् एक्स्चेञ्च्) दृष्ट:।
लात्तूरु> भारतसैन्यस्य गोप्यविषयान्  स्ववशमानेतुम्  भारतदूरवाणीशृङ्खलायाम्  पाकिस्थानगुप्तचरसङ्घटनाया:  अधिवेश:। तीव्रवादविरुद्धगणेन  दूरवाणीविभागेन च शुक्रवासरे कृते संयुक्तसूक्ष्मनिरीक्षणसंशोधने  महाराष्ट्रस्य लात्तूरुमण्डले अनधिकृतौ द्वौ दूरवाणीसङ्केतौ  प्रवर्तितौ लक्षितौ। भारतस्य दूरवाण्यन्तर्जालशृङ्खलायाम्  आरुह्य अन्तर्जालस्थानमानोपरि शब्द:  (वी ओ ऐ पी) (वोय्स् ओवर् इन्टर्नेट् प्रोटोकोल्) आधारीकृत्य सन्देशविनिमयमार्गेण अतीव गोप्यानि सेनारहस्यानि स्ववशनयनमेवासीत् तेषाम् उद्देश:। जनुवरित: आरब्धे अन्वेषणे  दृष्टिपथमागत: चतुर्थ:  अनधिकृतदूरवाणीसङ्केतोयम्। इत: पूर्वं देहल्याम् हैदराबादे  भोप्पाले च एवं दूरवाणीसङ्केता: दृष्टा:। जम्मुकाश्मीराधारितसैन्यस्य गुप्तान्वेषणविभागात् आरक्षकेभ्य: सूचना: उपलब्धा: । एता: सूचना: अनुसृत्य महाराष्ट्रस्य तीव्रवादविरुद्धगणेन  लात्तूरु आरक्षकविभागेन तथा दूरवाणीविभागेन च संयुज्य कृतायां सूक्ष्मनिरीक्षणशोधनायाम् एव अनधिकृतदूरवाणीशृङ्खला दृष्टिप्राप्ता   षण्णवति सिम् समपत्राणि, एकं सङ्गणकम्, त्रीणि यन्त्राणि  च इत: गृहीतानि । षण्मासेभ्य: केन्द्रमिदम्  प्रवर्तनक्षमम्। त्रयस्त्रिंशत् वयस्क: युवक: कश्चन एतस्य चालक:। इत: प्राप्तसूचनाधारेण कृते अन्वेषणे वालाण्टिग्रामस्थात् आपणात्  द्वौ अन्ताराष्ट्रकवाटमार्गौ,  चतुर्दश सिम् समपत्राणि  अन्यवैद्युतोपकरणानि  च गृहीतानि। जान्वालमण्डलस्य  बाठकगृहे द्वितीयसूक्ष्मनिरीक्षणशोधनं कृतम्। इत: चतुष्षष्टिसंख्याकानि सिम्  समपत्राणि  एकम् अङ्कसङ्गणकम्  द्वौ अन्ताराष्ट्रकवाटमार्गौ  वैद्युतोपकरणानि च गृहीतानि। सार्धचतुर्लक्षरूप्यकमूल्ययुतानि  उपकरणानि द्वाभ्यां सूक्ष्मनिरीक्षणशोधनाभ्याम् गृहीतानि। सर्वकारवित्तभवने पञ्चदशकोटिरूप्यकाणां  नष्टम् एतेषां कुत्सितप्रवर्तनेन जातम्। दूरवाणीमेखलया अभिमुखीक्रियमाण: अतिरूक्ष: भीषण: भवति एवं सिम् पेटिकाभि: चाल्यमानानधिकृतकेन्द्राणि।

Sunday, June 18, 2017

केरलस्य सवप्नपद्धतिः कार्यान्विता। मेट्रो देशाय समर्पितम्।
कोच्चि>प्रधानमन्त्रिणा नरेन्द्रमोदिना कोच्चि मेट्रो सेवा केरलाय समर्पितम्। कलूर अन्तरदेशीय क्रीडङ्कणे निर्मितायां विशिष्ट वेद्यां प्रधानमन्त्री केरलस्य स्वप्नपद्धतीं राष्ट्राय समार्पयत्। केन्द्रमन्त्री वेङ्कय्य नायिडु मेट्रो स्मार्ट् वण् पत्रं तथा मुख्यमन्त्री पिणराई विजयः मोबईल् वण् मेट्रो आप् च प्रकाशितवन्तौ। मेट्रो यानस्य प्रथमयात्रायाः उद्घाटनं प्रथानमन्त्री अकरोत्। पालारिवट्टं मेट्रो निस्थाने वस्त्रखण्डं छिद्य उद्घाटनं निर्व्यूढम्। सम्मेलने मुख्यमन्त्री पिणराई विजयः, राज्यपालः पि सदाशिवः, केन्द्रमन्त्री वेङ्कय्य नायिडु, भा जा पा राज्यस्थ अद्ध्यक्षः कुम्मनं राजशेखरः, मेट्रोमान् ई श्रीधरः इत्यादयाः भागं अभजन्। पुनः सः पालारिवट्टं तः पत्तटिप्पालं पर्यन्तं ते यात्रां अकुर्वन्।
 ज्ञानस्य वास्तविकं लक्ष्यं सामाजिकम् आर्थिकपरिवर्तम्- भरतस्य प्रधानमन्त्री
पि एन् पणिक्कर्
   कोचि>प्रधानमन्त्रिणा नरेन्द्रमोदिना  प्रोक्तं यत् ज्ञानं न केवलं साक्षरतापर्यन्तं भवेत् अपितु ज्ञानस्य वास्तविकं लक्ष्यं वर्तते यत् अनेन  सामाजिकम् आर्थिकपरिवर्तम् च आनेतव्यम्। कोच्चिनगरे पी.एन्.पणिक्कर् फाउंडेशन्  इत्यस्य अध्ययनमाससमारोहस्य  उद्घाटनसमारोहे भाषमाणेन प्रधानमन्त्रिणा मोदिना  प्रतिपादितं यत् श्रेष्ठज्ञानेनैव सुदृढ़समाजस्य निर्माणं भवति। आंकिकीय साक्षरतायाः महत्वं प्रतिपदयता तेन प्रतिपादितं यत् पणिक्कर-फाउंडेशन आंकिकीय साक्षरतां समाचरति इति हर्षविषयः।

प्रधानमंत्रिणा उक्तम् यत् अनेन प्रयासेन महत्परिवर्तनं भवितुं शक्यते अपि च तेन जनाः अध्यर्थिता: यत् कस्यापि अभिनन्दनसमये तस्मै उपहारस्वरूपेण पुष्पगुच्छस्य स्थाने  पुस्तकं प्रयच्छन्तु।

शिक्षायाः साक्षरतायाश्च केरलराज्यस्य उपलब्धयः  प्रशंसयन् श्रीमोदिना न्यगदयत् दक्षिणभारतस्य तटवर्तिप्रदेशः सर्वदा राष्ट्रस्य पथप्रदर्शकः प्रेरणास्रोतश्च विद्यते|
कोच्चीनगरस्य उत्तमदिनानि आगमिष्यन्ति;  प्रधानमन्त्री मोदी।
      
कोच्ची>केरलस्य स्वकीयस्य  कोच्चीनगरस्य  उत्तमदिनानि  समीपभाविनि आगमिष्यन्ति इति कोच्ची मेट्रो रेलमार्गस्य  उद्घाटनवेलायाम् प्रधानमन्त्री नरेन्द्रमोदी उक्तवान्।  केरलस्य अभिमानपद्धतौ भागभाक्  भवति इत्यत:  अभिमानम् भजते - स: सूचितवान्। केन्द्र - केरलसर्वकारयो: समानभागभाक्त्वे  सफल: उद्यम: एव कोच्ची मेट्रो। द्विसहस्रकोटिरूप्यकाणि पद्धते: पूर्तीकरणाय केन्द्रविहितमिति प्रधानमन्त्री असूचयत्।  उपसहस्रसङ्ख्याका: महिला:  त्रयोविंशतिभिन्नलिङ्गा: च  कोच्ची मेट्रो मध्ये कर्मकरा: - मोदिना उक्तम् । परिस्थितिसौहार्दविकसनस्य  उत्तममातृका  एव मेट्रो। मेट्रो पद्धते: पूर्तीकरणाय  सहकारं  दत्तवद्भ्य: कोच्ची नगरवासिभ्य:  तथा  मेट्रो विधानस्य पृष्ठत: यत्नं कृतवद्भ्य: च प्रधानमन्त्री अभिनन्दनानि दत्तवान् ।  केन्द्रसर्वकारेण आविष्कृतस्य "भारते निर्माणम् " ( मेक् इन् इन्ड्या )  पद्धते: दर्शनं व्यक्तीकुर्वन्ति मेट्रो यानस्य पेटिकाविभागा:। भारते निर्मितवस्तूनि उपयुज्य चेन्नै नगरस्य 'अल्स्टोम्' कार्यशालया  ता: पेटिका: ( कोच् )  निर्मिता:। राष्ट्रस्य प्राथमिकसुविधाविकसने प्रत्येकश्रद्धा विधीयते केन्द्रेण। "समर्थनगरम् " ( स्मार्ट् सिट्टी ) पट्टिकाया:  प्रथमचक्रे कोच्चीमपि अन्तर्भावयत्। नाण्यकार्षिकोत्पन्नानां  व्यापारकेन्द्रमिति प्रसिद्धा कोच्ची  इत: परं वाणिज्यकेन्द्रमिति विश्रुतं स्यात्। राष्ट्रे पञ्चाशत् नगराणि  मेट्रो रेल्यानस्य प्रारम्भाय सन्नद्धानीत्यपि प्रधानमन्त्री व्यक्तीकृतवान्।
वर्षत्रयस्य विलम्बेन बाङ्गलूरु मेट्रो प्रथमभागं पूर्तीकृतम्। उद्घाटनं सम्पन्नम्।
 
बांङ्लूरु> ४२ कि मी दूरस्थ बांङ्लूरु मेट्रो रेलस्य प्राथम भागस्य द्वादश कि मी दूरस्य उद्घाटनं ह्यः  राष्ट्रपतिः प्रणाब मुखर्जी अकरोत् । शनिवासरे सायं षट् वादने आसीत् उद्घाटनम्। साबिगे वीथीतः येलच्चनहल्लि पर्यन्तस्य रेलस्य उद्घाटनेन प्रथमभागः पूर्तीकृतः। रविवासरात् गमनागमनं प्रारप्स्यते। नम्म मेट्रोयाः निर्माणं २०११ तमे प्रारभत।
    नम्म मेट्रोयाः अनुमतिः २००६ वर्षे लब्धा चेदपि विलम्बेनैव निर्माणं प्रारब्धम्। प्रथम भागस्य निर्माणं वर्षत्रयस्य विलम्बेन पूर्तीकृतम्। २०१४ तमे निर्माणं पूर्तीकरणीयमासीत्। अतिविलम्बेन बहु आर्थिकनष्टं जातमासीत्। 

    अतिकठिनैः पाषाणखण्डैः पूरितमिदं क्षेत्रम्। विलम्बस्य हेतुः एषः इति बी एम् आर् सी निदेशकेन प्रदीपेन सिंहेन उक्तम्। बहुत्र केवलं अर्थरात्रौ एव निर्माणं साध्यमासीत्। सः अयोजयत्। उद्घाटने पञ्चसहस्राधिक जनाः आगमिष्यन्ति इति बी एम् आर् सी एल् प्रतीक्षते। नवीने मार्गे दशस्थगनस्थानानि सन्ति। चिक्पेट्, के आर् मार्कट्, लाल्बाग्, जयनगरम्, आर् वी रोड्, बनशङ्करी, जे पी नगरम्, सौत् एण्ड् सरक्किल्, यलचनहल्ली  एतानि स्थगनस्थानानि।
शिक्षाक्षेत्रे केरलम् आदर्शराज्यम्- उपराष्ट्रपति:
नवदिल्ली> उपराष्ट्रपतिना मोहम्मदहामिद-अंसारिणा शिक्षा देशस्य विकासाय आधारभूतत्वेन प्रतिपादयता निगदितं यत् केरलं सुशिक्षया एव राष्टस्य आदर्शराज्यत्वेन विकसितम्, अपि च  अनेन जातिप्रथां परित्यज्य समतामूलकसमाजस्य स्थापना कृता।
इंडियन सोशल साइंस इत्यनेन  शिक्षाधिकारसम्बद्धादेशस्य द्विशतवर्षपूर्त्यवसरे आयोजितकार्यक्रमस्य उद्घाटनावसरे डॉ अंसारिणा एतत् प्रतिपादितम्। तेनोक्तं यत् सप्तदशाधिक-अष्टादशशतमवर्षे ट्रावनकोरस्य महाराज्ञीद्वारा सर्वेभ्यः शिक्षाप्रदानाय यः राज्यादेशः प्रख्यापितः आसीत् तेन राज्ये शिक्षाविषये नूतना सामाजिकचेतना जागृता, यया राज्यस्य सामाजिकविकासः वरीवर्धत, अपि च सामाजिकविकासेन आर्थिकविकासस्य आधारशिला स्थापिता।

शिक्षाक्षेत्रे केरलं देशस्य आदर्शराज्यत्वेन प्रतिष्ठितम्, अनेन न केवलं  जातिप्रथा  समाप्ता अपितु समतामूलक समाज: विनिर्मितः, इतः अनन्तरं केरलं ज्ञानाधारितं राज्यम् अभूत्। उपराष्ट्रपतिना भणितं यत् साम्प्रतं केरलम् आर्थिकविकासं प्रति अग्रे प्रसरेत् तदर्थम् आंकिकीय-साक्षरता-कौशल-विकास: वर्धनीयः। तेन उक्तं केरलराज्ये प्रतिव्यक्ति आय सर्वाधिका वर्तते अपि च पूंजीनिवेशः अपि वर्धितः। केरलस्य रीतयः सर्वै: ज्ञातव्यं, केरलराज्यम् शिक्षाक्षेत्रे एकं उदाहरणरूपेण दृष्टिपथे समागतः।

Saturday, June 17, 2017

कोच्ची मैट्रोरेलसेवायाः उद्घाटनम्
 प्रधानमन्त्री नरेन्द्रमोदी अद्य कोच्चि मेट्रो-रेल-यानसेवायाः उद्घाटनम् अभवत् , अत्रावसरे केन्द्रीयनागरविकासमन्त्री वैंकयानायडुः केरलस्य राज्यपालः पी.सदाशिवमः राज्यस्य मुख्यमन्त्री पिनाराई-विजयनः मैट्रोमैन् इति नाम्ना प्रसिद्धः ई.श्रीधरश्च उपस्थिताः आसन् | ध्यातव्यमिदं यत् कोच्ची मैट्रोरेल-सेवायाः किञ्चित्भागः सौरोर्जेन  सञ्चालितो भविष्यति। प्रथमे चरणे अलुवा स्थासनात् पलारीवट्टम् स्थासनं यावत् मैट्रोसेवा सञ्चाल्यते, पञ्चविंशति किलोमीटर-मिता मैट्रोसेवा जनसामान्येभ्यः सोमवासरात् प्रारप्स्यते, अस्यां परियोजनायाम् एकादश मेट्रो-स्थासनानि विद्यन्ते |
१९९३ मुम्बई विस्फोटप्रकरणम्
विगतशताब्दस्य त्रिनवतितमे वर्षे दुरापादिते मुम्बई विस्फोटप्रकरणे टाडा इति विशेषन्यायालयेन मुस्तफा-दौसा अबूसलीमौ समेत्य षड्जनाः आरोपिणः प्रतिपादिताः, अब्दुलकयूमघ विमुक्तो जातः, प्रकरणेSस्मिन्  जूनमासस्य ऊनविंशदिनांकः कारावसायदण्डाय निर्धारितः|  ध्येयास्पदं वर्तते यत् विगतशताब्दे त्रिनवतितमे वर्षे मार्चमासस्य द्वादशे दिनांके मुम्बईयाम् द्वादश क्रमिकविस्फोटेषुे सप्त-पंचाशदधिकद्विशतजनाः मृता: आसन्।
वित्तकोशलेखानां कृते आधारपत्रम् अत्यावश्यकम्।
नवदिल्ली> सर्वासां वित्तकोशलेखानां कृते आधारपत्रस्य [आधार् कार्ड्] आवश्यकत्वं  केन्द्रसर्वकारेण विज्ञापितम्। विद्यमानाः सर्वाः उपयोजकसंज्ञाः डिसम्बर् ३१तमदिनाङ्कात् पूर्वमेव आधारसंख्यया सह योजनीयाः। नो चेत् तादृश्यः लेखाः असाध्व्यः भविष्यन्ति। नूतनवित्तकोशलेखाः प्रकाशयितुमपि आधारपत्रम् अत्यावश्यकं भवेत्।
    "पान् पत्र" मपि आधारपत्रेण सह योजनीयमिति सर्वोच्चन्यायालयस्य आदेशमनुगम्य एव सर्वकारस्य अयं निर्णयः।
 भारतवंशजम्  चिप्  तन्त्रज्ञम् उन्नतवेतनेन सह  गूगिल् मध्ये  स्वीकृतवन्त:।
आप्पिल् मध्ये उद्योगस्थम् भारतवंशजम्  चिप्  तन्त्रज्ञम् उन्नतवेतनेन सह  गूगिल् मध्ये  स्वीकृतवन्त:। पिक्सलदूरवाणिभ्य:  चिप्निर्माणाय  एव मनु गुलात्तिनामकं चिप् तन्त्रड्ञं गूगिल्कारा: आप्पिलत: आकृष्टवन्त:। गताष्टवर्षेभ्य:  आप्पिल्मध्ये   क़र्म करोति स्म मनु गुलात्ति:।  स्वस्य नूतनकार्यालय: गूगिल्  तत्र  ए ओ सी तन्त्रविभागस्य नायकस्थाने एव नियमनम् इत्यपि  मनु गुलात्ति: लिङ्क्डिन् परिचायनपत्रे दिनानुगुणविवरणं दत्तवान्। विभिन्नसंस्थासु पञ्चदशवर्षेभ्य: चिप्निर्मातृस्थानके कर्म कुर्वन्नासीत् मनु:। अस्याम् मेखलायां आहत्य सप्तविंशतिवर्षाणाम् प्रवृत्तिपरिचय: अस्यास्ति।
कर्णाटके नवीननियम:, चिकित्सामूल्यं सर्वकार: निश्चेष्यति; अधिकमूल्यस्य कृते  पञ्चलक्षं रूप्यकाणि यावत् दण्डनम्।
      बङ्गलूरु > कर्णाटके स्वकार्यातुरालयेषु  चिकित्सामूल्यं निश्चिनोतुं  सर्वकारै: नियम: आनीयते। स्वकार्यातुरालया:  अधिकमूल्यम्  स्वीकुर्वन्ति इति निवेदनं व्यापकमभवत्  इत्यत: नियम: आनीयते। चिकित्सामूल्यनिर्णयं लक्षीकृत्य कर्णाटके स्वकार्यवैद्यविन्यासभेदगतिपत्रं स्वास्थ्यमन्त्री  रमेशकुमार: नियमसभायाम्  अवातारयत्। स्वकार्यवैद्यकलालयस्य,  आतुरालयप्रबन्धकानां च सम्मर्दं  अवगण्य एव  सर्वकार: भेदगतिविज्ञापनं नियमसभायाम् आनयत्। स्वकार्यातुरालयान् पट्टिकारूपेण विन्यस्य   स्यात् चिकित्सामूल्यनिर्णय:। एतदर्थं वैद्यरङ्गे विदग्धान् संयोज्य  समिति: निर्मीयते। राज्यचरित्रे इदंप्रथमतया एव एतादृशनियमनिर्माणाय  सर्वकारपक्षत: क्रमीकरणम्। स्वकार्यातुरालयेषु  लभ्यमानचिकित्सार्थं स्वीकार्यमाणव्यय:  सर्वकारेण निश्चीयते। अङ्गीकृतचिकित्सामूल्यमुल्लङ्घ्य ये अधिकं स्वीकुर्वन्ति ते पञ्चविंशतित: पञ्चलक्षं यावत् रूप्यकाणां दण्डनम् ,  षण्मासत: वर्षत्रयं यावत् कारागारवासं च अनुभवेयु:। रोगिभ्य: चिकित्सार्थं  पूर्वमेव धनस्वीकारोपि  न शक्यते। चिकित्सामध्ये म्रियमाणरोगिणाम् मृतदेहप्राप्त्यै  चिकित्सामूल्यं दद्यादिति  निर्बन्धोपि  न भवेत् । मृतदेहदानानन्तरं  व्ययं स्वीकुर्यात्। वैद्यनिरीक्षणायापि व्ययं निश्चिनोति सर्वकार:। तीव्रपरिचरणविभाग:, शस्त्रक्रियाप्रकोष्ठ:,  कृत्रिमश्वासविधानम्, शय्याबाठकम् ,  वैद्यसन्दर्शनशुल्कम् इति आतुरालयक्रमाणां सर्वेषामपि  शुल्कं निश्चीयते। एतस्मात् उपरि प्राप्तुं नार्हति। चिकित्साव्ययाय रोगिण: बन्धूनाम् अनुवादोपि प्राप्तव्य:।  रोगिणां कृते  चिकित्साया: व्ययस्य  स्वरूपपत्रम् पूर्वमेव दद्यात्।  अन्तिमशुल्कपत्रम् एतस्मात् अधिकं न भवेत्। रोगिण: विशदांशान् - कन्नडा, आङ्गलेयम्, हिन्दी - भाषासु प्रदर्शयेत्  इति व्यवस्थापि नियमे विद्यते। आतुरालयेभ्य: चिकित्साप्राप्ति:  रोगिणाम् अवकाशं कारयति  निर्दिष्टनियम:। सामाजिक- आर्थिक - जाति - मतभेदं विना सर्वेभ्य: चिकित्साप्राप्तिदृढीकरणमेव लक्ष्यम्। रोगिण: वैद्यान् आतुरालयकर्मकरान् प्रत्यपि मान्यरीत्या व्यवहरेयु: च इत्यपि तत्र निर्देश:। आतुरालयसम्बद्धनिवेदनानाम् परिहाराय  मण्डलनिवेदनपरिहारशाला प्रवर्तिष्यते। मण्डलग्रामसभा मुख्यनिर्वाहकाधिकारिण:  अध्यक्षतायां निवेदनपरिहारशाला प्रवर्तते।  सिविल् न्यायालयस्य अधिकार: शालाया: भवेत्।

Friday, June 16, 2017

महाट्टालिकाभवनम् अग्निगोपुरम् अभवत्, अनेके हता:।
     लण्डन्>अनुवर्तिभीकराक्रमणानाम्  आघातात् अनुत्थितं लण्डन्नगरं कम्पयित्वा  महाग्निबाधा। नगरस्य पश्चिमदिशि नोट्टिङ् हिल् प्रदेशे विद्यमानं  महाट्टालिकाभवनम्  अक्षरार्थे अग्निगोपुरम् अभवत्। द्वादशजना: हता: इति प्राथमिकनिगमनम्। बुधवारे प्रात:  एव अस्य चतुर्विंशत्यट्टभवनस्य अग्निबाधा लक्षिता।  घण्टानामनन्तरमपि  भवनम् ज्वलदेव भवति। अस्मिन् भवनसमुच्चये द्विशतं जना: वासं कुर्वन्ति इति चिन्तयति। अग्निबाधाकारणं न स्पष्टम्। अनेके हता: स्यु: इत्यपि  विचार्यते। किन्तु अस्मिन् विषये औद्योगिकस्थिरीकरणं  नास्ति। कति जना: मृता:  कति जना: क्षतदेहा:  इति कृत्यतया वक्तुं न शक्यते। अग्निनियन्त्रणे  अर्धमात्रं वा विजय: दृष्ट: चेदेव  एतादृशकार्येषु  निरीक्षणं साध्यम् भवति  इति चिन्तयति आरक्षकवृन्द: अग्निशमनसेना च। नोट्टिङ् हिल् प्रदेशस्य  लाटिमर् मार्गे  ग्रोण्फेल् टवर् नामकम् भवनमेव लण्डन् नगरचरित्रे एव अश्रुतपूर्वया अग्निबाधया विनष्टम्। द्वितीयाट्टस्य उपरिष्टादेव अग्निबाधाया: प्रारम्भ:। पश्चात् अग्नि: करालहस्तावृता । एकैकस्यापि अट्टस्य अग्निबाधा  जाता। भवनं यस्मिन् कस्मिन्नपि क्षणे  भूमौ पतेत् इति  स्थितिम् प्राप्तम्। अग्निशमनसेनाया: चत्वारिंशत् एककानाम् नेतृत्वे, अग्निनियन्त्रणप्रवर्तनानि   अनुवर्तितानि। शतसंख्यकानि अग्निशमनसेनाङ्गानि  जीवन्मरणसम्मर्दप्रवर्तनेषु नियुक्तानि  इति आवेद्यन्ते। लण्डन् नगरस्य पञ्चसु आतुरालयेषु   च चतुष्षष्टिजनान् प्रावेशयत् इति प्राथमिकनिगमने सूच्यते। एतेषु नैकेषां स्थिति: गुरुतरा। भवने रक्षामार्गविनष्टा:  जङ्गमदूरवाणीस्थकरदीपान् प्रकाश्य  साहाय्यम् अभ्यर्थयन्त: वर्तन्ते।  बहुवारम् अट्टगृहेभ्य: वैद्युतयन्त्रसामग्र्य:  महाशब्दै: सह  स्फोटनात्परम् बहि: पतिता:।

भूतपूर्वः सर्वोच्चन्यायालयमुख्यन्यायाधीशः पि एन् भगवतिः दिवंगतः। 
नवदिल्ली >सर्वोच्चन्यायालयस्य भूतपूर्वः मुख्यन्यायाधीशः न्याय. पि एन् भगवतिः [९५] दिवंगतः। सर्वोच्चन्यायालयस्य सप्तदशतम मुख्यन्यायाधिपः आसीत्। ततः पूर्वं गुजरात् उच्चन्यायालयस्य मुख्यप्राड्विवाकरूपेण सेवां करोति स्म। पौराणाम् अधिकार संरक्षणाय नितान्तजाग्रतां प्रदर्शयन्नासीत्।
    अन्तिमसंस्कारक्रियाः श्वः भविष्यति।
पुनरपि वित्तकोशलयनोद्यमेन केन्द्रसर्वकारः।
नवदिल्ली> पुनरपि लघुवित्तकोशानां लयनं निर्वोढुं केन्द्रसर्वकारस्य उद्यमः। देना बैंक्, विजया बैंक्, यूको बैंक्, यूणियन्  बैंक् ओफ् इन्डिया, युणैटड् बैंक् ओफ् इन्डिया इत्येतान् वित्तकोशान् कानरा बैंक्, बैंक् ओफ् बरोडा इत्येताभ्यां वित्तकोशाभ्यां सह लाययितुमेव सर्वकारस्य उद्यमः। एतस्य साध्यतां परिशोधयितुं नीति आयोग संस्थां प्रति निर्देशः कृतः।
     पूर्वं एस् बि टि प्रभृतीनां  वित्तकोशानां  लयनं कारितमासीत्। तस्य द्वितीयपादरूपेणैव अयमुद्यमः। सार्वजनीनवित्तकोशानाम् अनुपलब्ध ऋणस्य समस्यां पुरस्कृत्य एव सर्वकारस्य अयं पदक्षेपः। राष्ट्रे वित्तकोशानां सप्तलक्षाधिककोटिरूप्यकाणां अनुपलब्धर्णमस्तीति भारतीय रिसर्व् बैङ्क् द्वारा निगदितमासीत्।
आयुः २३, भारतीय-शासन-सेवायां १३तमश्रेण्याम् ।
कण्णूर्>कण्णूर्  जनपदस्य  परिवारं देशीयः अतुल् जनार्दनन् भारतीय शासन सेवायां १३तमं  श्रेणीं प्राप्तवान्। सः केरलराज्यस्तरे  प्रथमश्रेणीस्थः। भारतीय  विदेशसेवा अस्ति अस्य लक्ष्यम्। विदेश-नयतन्त्रबन्धेषु सः तत्परः अस्ति। सम्यक् स्वपिति। हिन्दी गीतानि शृणोति, आङ्गलेय-दूरदर्शनदृश्यानि पश्यति। पठनाय विशेषसमयं नास्ति। मेक्कानिक्कल् अभियान्त्रिक विद्यायां बिरुदप्राप्तः। बिरुदानन्तरं विनाभ्यासं परीक्षा तेन लिखिता। किन्तु पराजितवान्। द्वितीयवारं अभ्यासेन सह परीक्षां लिखितवान्। भूमिशात्रं ऐच्छिकविषयत्वेन स्वीकृतवान्। परीक्षाः कठिनाः  आसन्।  साक्षात्कारपरीक्षा अपि किञ्चित् कठिनमासीत्। राजनैतिक क्षेत्राणां प्रश्नाः,  केरलसम्बन्धयः प्रश्नाः च प्रमुखतया आसन्। अभियान्त्रिक ज्ञानं भारतीय शासन सेवायां प्रचोदनं अकरोत्। निश्चिता निर्धारिता च पठनरीतिः नासीत्। रात्रौ एकादाशवादनतः प्रातः सार्ध सप्तवादनं वा अष्टवादनपर्यन्तं वा स्वपिति। परीक्षावेलासु ग्रामस्य विवाहादि कार्येषु भागभाक् न अभवत्। सर्वेषां विषयाणां विशदं पठनं आवश्यकं। पठनेषु सुहृदां साहाय्यं आसीत्। भारतीयसेनातः विरमितः एम् वी जनार्दनस्य लतायाः च पुत्रः। सहोदरी नीतू वैभव्।
पठनस्य कृते तेन अवलंबितः  मार्गः।
पठनार्थं स्वरीतीणां स्वीकरणं कार्यम्।
समीचनं परिश्रमं कार्यम्।
सर्वेषां विषयाणां कण्ठस्थीकरणाय श्रमं न कुर्यात्।
प्रधानज्ञानानां लघुलेखाः निर्मातव्याः।
सगौरवं पठनं कुर्यात्।
समूहमाध्यामानां उपयोगं कुर्यात्।

Thursday, June 15, 2017

तम्बाकचर्वणं कृत्वा समायातं वरं वरयितुं विसम्मतिमकरोत्  वधू।
चतुर्विंशतिघण्टा: अपि  मुखे तम्बाकचर्वणं कुर्वन्त: युवान: जाग्रताम् पालयन्तु,   उत्तरप्रदेशस्य एतस्या: युवत्या: निर्णयं सर्वा: युवत्य: मातृकां कुर्वन्ति चेत् आजीवनान्तं भवन्त: विवाहं विना एव जीवेयु:। उत्तरप्रदेशे बल्लिया मण्डले मुरार्पत्तिग्रामस्य  युवती एव कठिनमेतं निर्णयं स्वीकृतवती। विवाहदिने तम्बाकचर्वणेन सहागतं वरं  त्यक्तवती एषा। लालगञ्जमण्डले दलनचपाराग्रामे वरस्य गृहम्। विवाहदिने वधूगृहम् प्रविष्टाय वरसङ्घाय महत् स्वीकरणम् अलभत।  गृहस्य अन्त: प्रत्येकं सज्जीकृतां विवाहवेदिकाम् प्रति वरस्य आगमनसमये  एव एकं कार्यं वध्वा लक्षितम्। वर: सर्वदा  तम्बाकचर्वणं कुर्वन्नस्ति।  एतं वरयितुम्  न शक्यते  इति वक्तुं सा सङ्कोचं न प्राकटयत् । सर्वे स्तब्धा: जाता:। बान्धवा: युवतिं निर्णयात्  प्रत्यानेतुम् परिश्रमं कृतवन्त:, पराजिताश्च।  तस्यां रात्रौ उभयो: बान्धवा: सुहृदश्च चर्चां कृत्वा प्रश्नपरिहाराय  अयतन्त। किन्तु स्वनिर्णये अचञ्चलमनस्का अतिष्ठत् युवतिरियम्। वरस्य गृहस्था:  समीपस्थे  दोकाति - आरक्षणालये स्थितिं  न्यवेदयन्। आरक्षणालयस्य सहनिरीक्षक: युवत्या सह वार्तालापं कृतवान् चेदपि निर्णयात् नैव व्यत्यचलत् सापि । विवाहदिनेपि त्यक्तुमशक्यस्य तम्बाकचर्वणशीलस्य  सेवकेन एकेन सह जीवितुं सन्नद्धा नेति आरक्षकानपि न्यवेदयत् सा।
अभिज्ञानपत्राणां प्रतिलिपयः नवमाध्यमेन न दद्युः 
त्रिशिवपेरुर्> वैयक्तिकसङ्केताः तथा प्रत्यभिज्ञान पत्राणां प्रतिलिप्यः च वाट्स्-आप्, फेस्-बुक् आदि नवीनमाध्यमद्वारा विनिमयः मास्तु इति आरक्षकाणां अन्तर्जालावेक्षकविभागेन स्पष्टीकृतम्।  विनिमयः पटलद्वारा भवति चेत् एतस्य दुरुपयोगसाध्यता अस्ति।  स्वकीय प्रमाणपत्राणां प्रतिलिपयः सार्वजनिक-सङ्गणकयन्त्रे स्थापयति चेत् तदपि आपत्करः इति अपराधान्वेषण-सङ्घेनापि व्यक्तीक्रियते।  एतादृशान् प्रमाणान् उपयुज्य अन्तर्जालापराधाः वर्धिताः इत्यनेन  एतादृशी उद्घोषणा।  मुख्यप्रमाणानां प्रतिलिपयः जंगम दूरवाण्यामपि मा स्थापयेत्।  ई-मेल्, फेस् -बुक्, ट्विट्टर् आदि उपयुज्यानान्तरं  लेखतः बहिरागमनं करणीयम्।  एतान् उपयुज्य कापुरुषाः अपराधान् कर्तुं प्रयत्नं कुर्वन्तः सन्ति इति आरक्षकाः वदन्ति।
उत्तरप्रदेशे नियमलङ्घकानां लोकयानचालकानां भावचित्रग्रहणे तु पुरस्कार:।
        लख्नौ>नियमलङ्घकेभ्य: लोकयानचालकेभ्य: दण्डनविधानं शाक्तीकर्तुं नूतनपद्धत्या सह उत्तरप्रदेशसर्वकार:। वाहनं चालयन् एव दूरवाणीसम्भाषणं, नियमलङ्घनं  वा कुर्वत: चालकस्य भावचित्रं स्वीकृत्य "वाट्स् आप् " माध्यमेन गतागतविभागाय प्रेषयितुं शक्यते। एवं ये चित्राणि प्रेषयन्ति, तेभ्य: पुरस्कारान् दातुं च सर्वकारेण निश्चितमिति  पी टी ऐ न्यवेदयत्। यानचालनसमये जङ्गमदूरवाण्या सम्भाषणं  नियमेन निरोधितं चेदपि  यात्रिका: प्रतिदिनम् परिदेवनानि कुर्वन्ति इति  उत्तरप्रदेशस्य गतागतमन्त्री स्वतन्त्रदेवसिंह: अवदत्।  अत: यात्रिकाणां साहाय्यार्थमेव  एतत् क्रमीकरणं स्वीकृतम्। नियमलङ्घकानां यानचालकानां चित्रं गृहीत्वा यात्रिका: प्रेषयितुमर्हन्ति। चित्रं गृहीत्वा प्रेषकाणां यात्रिकाणां कृते  रूप्यकपुरस्कारं यच्छेयु: इत्यपि स:  न्यवेदयत्। क्रमीकरणस्य एतस्य कृते यात्रिकाणाम् पक्षात् उत्तमप्रतिकरणमपि लभते इति मन्त्री सूचितवान् । आशयोयं द्विधा सफलीकृत: भवेत्, स: योजितवान्।  नियमलङ्घनम् सूचयितुम् अधिकार: प्राप्त: इति  चिन्ता यात्रिकाणाम् भवेत्।  तथैव चालका: दायित्वबोधयुक्ताश्च भवेयु: इति प्रतीक्षापि तेन प्रकटीकृता। नियमलङ्घकानां षण्मासं यावत् कारागारवास: सहस्ररूप्यकाणां  दण्डनं च प्राप्तव्ये  बहुत्र एतानि नियमलङ्घनानि नैव आवेद्यन्ते।  एतस्य परिहाररूपेणापि  आशयोयम् उत्तरप्रदेशसर्वकारेण  रूपीकृत:। अनेन अश्रद्धया वाहनचालनेन सम्भूयमानापघातान् न्यूनीकर्तुं  शक्नुम: इत्यपि स: प्रतीक्षाम् प्राकटयत्।।

Wednesday, June 14, 2017

गुप्तः भूत्वा न्याय. कर्णस्य सेवानिवृत्तिः।
कोल्कोत्ता> विवादेन विख्यातः न्यायाधीशः सि एस् कर्णः कोल्कोत्ता उच्चन्यायालयात् सोमवासरे सेवानिवृत्तः अभवत्। न्यायालयम् अनागत्य रहःस्थानं वर्तयित्वा विरमितः न्यायाधीशः इत्यपूर्वविशेषता अपि तेन प्राप्ता।
     कर्णस्य अभावात् औपचारिककार्यक्रमाः के पि नासन्निति उच्चन्यायालयस्य पञ्जिकाधिकारिणा सुगतो मजुंदारेण उक्तम्। तदाभ्यन्तरे, न्यायालयं प्रति अनादरहेतुना सर्वोच्चन्यायालयेन षण्मासीय कारागारवासविहितं कर्णं सङ्गृहीतुं वङ्गदेशारक्षसेनायाः परिश्रमः अनुवर्तते च। न्यायालयविधेरनन्तरं "विटपान्तरितविग्रहः" न्याय. कर्णः तमिलनाट् राज्ये वर्तते इत्यस्ति विश्वासः।
महागोधिकाकालस्य पक्षिण: जीर्णभौतिकावशिष्टम् प्राप्तम्।।
           
   बीजिङ् > महागोधिकाकाले जीवितवत्या: लघुपक्षिण: पूर्णमातृका इदम्प्रथमतया  शास्त्रलोकेन  उपलब्धा। पीत 'कुन्दिरु' सदृशवृक्षस्रवे पतिताया: पक्षिण: नखानि पक्षाग्राश्च  सहितम् पूर्णरूपं प्राप्तुमर्हति। म्यान्मरस्य खने: प्राप्त: वृक्षस्रव: नव दशांशम् अष्ट कोटि: वर्षाणाम् प्राचीन: भवति। सार्धषट् कोटि: वर्षेभ्य: पूर्वं जीवितवत्या: दन्तयुक्तपक्षिविभागस्य एन्टोणियोर्णित्तीन्स् मध्ये अन्तर्भवति एषा पक्षिरिति मन्यते। शरीरघटनाया: पक्षाग्राणां च सविशेषताभि: पक्षिशाबक: इति निगमनं च क्रियते। अतिप्राचीनकालस्य अधुनातनकालस्य च पक्षिण: मध्ये विद्यमानभेदान् पठितुं  निरीक्षणमोतत् सहायकम् भवति। सामान्यतया जीर्णभौतिकावशिष्टेषु  पक्षाग्रा: नैव व्यक्तीभवन्ति। किन्तु एतस्मिन् विशिष्टवृक्षस्रावे   पक्षाग्रा: स्पष्टा: स्वीकर्तुं शक्यन्ते। पूर्वमपि एवम्  वृक्षस्रावे समानकालघट्टस्य पक्षिणां जैवभौतिकावशिष्टानि प्राप्तानि चेदपि कृत्यतया रूपप्राप्ति: प्रथमतया एव। पक्षिशाबकस्य दैर्घ्यं षट् से मी मितम् भवति।
स्वातन्त्र्यप्राप्तेरनन्तरं नवषष्टिवर्षेषु अतीतेषु, उत्तरप्रदेशे फकीरखेराग्रामे वैद्युति:  आगता।
      
अलहाबाद: > स्वातन्त्र्यप्राप्तेरनन्तरं नवषष्टिवर्षेषु अतीतेषु, उत्तरप्रदेशस्य मजरा फकीरखेराग्रामम्   अन्धकारात् स्वातन्त्र्यम् प्राप्तम् तत् तु गतदिने एव। दीर्घप्रतीक्षाया: अन्ते ग्रामेस्मिन्  वैद्युति: प्राप्ता।  गाननृत्तघोषै: ग्रामवासिन: वैद्युतेरागमनम् आघुष्टवन्त:।  भारतस्य विकसनं वर्धनं च चन्द्रयानमपि अतिक्रम्य अग्रे गमनसमये एव नवषष्टि: वर्षाणि यावत् ग्रामेनैकेन वैद्युत्यै प्रतीक्षा करणीया अभवत्। ग्रामे बच्चस्य गेहे प्रप्रथमं गोलदीपे प्रकाशिते  नृत्तं कृत्वा ग्रामीणा: सन्तोषमेनम् प्राकाशयन्। प्रथमदिने तावत् दारिद्र्यरेखायाम् अन्तर्भूतानाम् पञ्चत्रिंशत् कुटुम्बानां वैद्युतिबन्ध: प्राप्त:। दारिद्र्यरेखाया: उपरि (ए पी एल्)  विभागस्य एकस्य कुटुम्बस्यापि कृते वैद्युति: दत्ता इति दौत्यस्वीकारात्परम् विंशतिदिनान्तरे  ग्रामस्य वैद्युतिलभ्यताम् सफलं कृतवान् लेसाया: सामान्यप्रबन्धक: आशुतोषश्रीवास्तव: अवदत्। केन्द्रसर्वकारस्य ग्रामीणवैद्युतीकरणयोजनानुसारमेव ग्रामे वैद्य़ुतिम्  प्रापयन्। आहत्य एकविंशतिर्लक्षं रूप्यकाणि  पद्धत्यै व्ययीकृतानि  इत्यपि श्रीवास्तवा योजितवान्।

Tuesday, June 13, 2017

 भूगर्भदुर्गादपि भीकरान् द्रष्टुं शक्यते; सैन्यशक्तिवर्धकं रडार्।
         नवदिल्ली > गुप्तान् गोलिकास्त्रप्रयोक्तॄन् भीकरान् इत: परम् भारतीयसेना न बिभ्येत्। भूगर्भप्रकोष्ठेषु  गृहान्तर्भागेषु वा गुप्तान्  भीकरान्  द्रष्टुं साध्यानि  अत्यन्ताधुनिकरडारयन्त्राणि सेनाया: स्वकीयानि  भवन्ति ।  यु एस् , इस्रायेल् राष्ट्रेभ्य: सेना हैटेक् रडारयन्त्राणि क्रीणाति स्म। काश्मीरे नियन्त्रणरेखायां
च पाक्भीकराणां गुप्तातिक्रम: तथा अक्रमाश्च व्यापकरीत्या लक्षिता:  इत्यत: सेना  आधुनिकसङ्केतानधिकृत्य  अचिन्तयत्। सूक्ष्मवीचीतरङ्गान् ( मैक्रोवेव् तरङ्गान् ) आधारीकृत्यैव रडारस्य प्रवर्तनम्। कश्मीराधित्यकायाम् भीकरान् प्रतिरोद्धुम्  इदानीमेव एतादृशरडार् यन्त्राणि उपयुज्यन्ते इति उन्नतसैनिकवृत्तानि अवदन्। अतिसूक्ष्मता एव रडार् यन्त्राणां सविशेषता।   सविशेषभित्तीनाम् अन्त: , गृहान्तर्भागे, भूगर्भप्रकोष्ठान्त: वा गुप्तान् भीकरान् रडार् द्वारा  कृत्यतया  दृष्टिपथान् कर्तुं शक्यते। सैनिकानाम् पक्षे मनुष्यनाशं न्यूनीकृत्य  प्रहरशेषीवर्धनमेव तन्त्रम् । जनवासमेखलासु जनान् कवचत्वेन स्वीक्रियमाणान्  भीकरान् कृत्यतया लक्षीकर्तुं  शक्यते  इत्येतत् तस्य  सक्रियता।
 ऐ एस् भीकरा: सौदी अरेब्याम् भीषयन्ति  इति प्रख्यापितवन्त:।।
 दुबाय्>सौदी अरेब्याम् प्रति युद्धम् प्रख्याप्य  ऐ एस् भीकरा: रङ्गे । टेहराने सप्तदशजनानां  हननकारणभूतस्य  आक्रमणस्य उत्तरदायित्वं स्वीकृत्य अनन्तरमपि सौदी अरेब्यायाम्  आक्रमणं कर्तुम् ऐ एस् निर्णय: अभवदिति "" सैट् इन्टलिजन्स् निरीक्षणसङ्घ: "" ( मेखलाविज्ञानिनां निरीक्षणसङ्घेन ) आवेदितमस्ति। टेहरान् आक्रमणस्य  किञ्चित् पूर्वमेव मुखाच्छादकं धृत्वा पञ्च ऐ एस् भीकरै: कृत:  भीषणसन्देश: अन्तर्जालपटे आगत: । इरानस्य षिया मुहम्मदान्  सौदी अरेब्याया: सर्वकारांश्च भीकरा: भीषणं कुर्वन्ति। " भवतां राष्ट्रम् अतिक्रम्य  भवत: विरुद्ध्य आक्रमणं  कुर्म:।  वयं कस्यापि सहयोगिन: न भवाम:। वयम् अल्लाहौ तस्य दूते च विश्वसिम: " इत्यपि दृश्यचित्रसन्देशे वदन्ति ते। पूर्वमेव सिरियाया: इराखस्य च केषाञ्चन प्रदेशानां नियन्त्रणम्  ऐ एस् भीकरा: स्वीकृतवन्त:। किन्तु सौदीसुरक्षासेनाया: आक्रमणात्  बहुप्रदेशेभ्य: तै: पलायनं करणीयम् अभवत्। स्वीयविरुद्धशक्तिं सौदीम् अधीनं कर्तुं समर्थान् पद्धतीन्  दृढनिर्णयैस्सह रचयन्ति ऐ एस् भीकरा:।
अपघातजनयित्री  विदेशमहानौका गृहीता; त्रीणि मरणानि।
           गोश्रीपुरम् (कोची )> गोश्रीपुरे मत्स्यबन्धनाय गतायां  यन्त्रनौकायाम, महानौकायां घट्टितायाम्   अप्रत्यक्षभूतानां त्रयाणां कर्मकराणांम्  मृतदेहा:  पश्चात् उपलब्धा:। कुलच्चिलस्वदेशिन:  तम्पि दुरै इत्यस्य, असमस्वदेशिनो:  द्वयोश्च मृतदेहा: तथा प्राप्ता:। नाविकसेना  तीरसंरक्षणसेना  मत्स्यबन्धनकर्मकरा: च मिलित्वा  अन्वेषणं कृतवन्त:। तन्मध्ये, यन्त्रनौकया सङ्घट्य  अपघातकारिणीम्  महानौकां प्रत्यभिज्ञातवन्त:। पनामायाम् पञ्जीकृता   भारवाहिनी महानौका "आम्बर् " नामिका एव अपघातकारिणी। गोश्रीपुरात्  अष्ट नोट्टिक्कैल् मैल् मितं दूरं गताम् महानौकां नाविकसेना अगृह्णात्। महानौकाया:  मुख्यनेतृसहितान् प्रति  नरहत्यायै  नियमपत्रं  दास्यति इति  गोश्री नगरारक्षणमेधावी  एम् पी दिनेश:  न्यवेदयत्। राष्ट्रान्तरनियमान् अपि  परिगण्य नियमरक्षानिर्णय: स्वीक्रियते  इत्यपि स: उक्तवान्। प्रात: सार्धद्विवादने  पुतुवैप्पिन्स्थानकात्  विंशति: नोट्टिक्कल् मैल् मिते दूरे  अपघात: प्रवृत्त:। यन्त्रनौकायां विद्यमानेषु चतुर्दशसु जनेषु  एकादशजना: रक्षाम् प्राप्तवन्त:। दिनद्वयात्पूर्वम्  मत्स्यबन्धनाय निर्गता  "कर्मलमाता " नामिका यन्त्रनौका  अपघाते पतिता। यन्त्रनौकाया:  गति: महानौकानाम् मार्गेण नासीत्  इति कर्मकरा: उक्तवन्त:। प्रात: अपघातसमये अन्या यन्त्रनौका एतेषाम् समीपे आसीत्। उच्चै: शब्दं श्रुत्वा आगता: तस्या: यन्त्रनौकाया: कर्मकरा:  रक्षाप्रवर्तनं कृतवन्त:। अपघाते मत्स्यबन्धननौका  पूर्णतया विनष्टा। रक्षितान् एकादशजनान्  फोर्ट्कोच्च्याम् आतुरालयम् प्रावेशयत्। एतेषु द्वयो: स्थिति: अतीव गुरुतरेति कारणात्  एरणाकुलम् सर्वकारातुरालयंम् प्रति तौ परिवर्त्य प्रवेशितौ।।
इतःपरं कर्मनिषेधेन निस्सहकरणमिति केरलवणिजः
कुक्कुटक्रोडदेश:>पूर्वविज्ञापनं विना सूचितकर्मनिषेधेन निस्सहकर्तुं केरलवाणिज्य व्यवसाय - एकोपनसमिति: निश्चितवती। कुक्कुटक्रोडदेशे राज्यस्तरीयसचिवमेलने अनुवर्तमानकर्मनिषेधेन निस्सहकर्तुञ्च निश्चितम्।  कर्मनिषेधनाम्ना वणिक्षु अत्याचारारोपाय राष्ट्रियदलीयानां विचारं न अङ्गीकरिष्यति इति राज्याध्यक्षः अवदत्। वणिजाम् एतिस्मन् विरोधं सर्वान् राष्ट्रियदलीयान् ज्ञापयितुं च निश्चितवान्।
मत्स्यबन्धननौका महानौकाघट्टनेन भग्ना - द्वौ मृत, एकः अदृष्टः।
कोच्ची> केरले कोच्ची समुद्रतटात् चतुर्दश नोट्टिक्कल् मैल् [२६ कि.मी]परिमिते दूरे कीलेन बन्धितां "कार्मल् माता" नामिकां मत्स्यबन्धननौकाम् "आम्बर् एल्" इत्याख्या पण्यवस्तुयुक्ता महानौका घट्टति स्म। दुर्घटनायां द्वौ धीवरौ मृतौ। एकः अदृष्टः अभवत्।  रविवासरे प्रत्युषसि मत्स्यबन्धनानन्तरं धीवरेषु सुप्तेषु इयं दुर्घटना जाता।

Monday, June 12, 2017

उन्मादकवस्तुविक्रयणम् - जनसमूहेन हस्तपादच्छेदितः युवा मृतः । 
भट्टिन्ड [पञ्चाबदेश:]>भागिवान्दर् ग्रामे उन्मादकवस्तुविक्रयहेतुना जनसमूहः यस्य हस्तपादच्छेद नम् अकरोत् सः मृतः।  उन्मादकवस्तुविक्रयहेतुना दण्डं प्राप्य चतुर्दिनपूर्वं कारागारात् बहिरागतः विनोदकुमारः (३०) एव हतः पुरुषः। तस्य उन्मादकवस्तुविक्रयनिमित्तक दुःखनिवेदनस्य आरक्षकव्यवहारविधिस्वीकारः न अभवदिति ग्रामीणाः वदन्ति। एतदर्थं डि . वै. एस् . पि. इत्यमुं द्रष्टुम् गतान् तान् विनोद : अवरुणद्धि स्म। तदेव हस्तपादच्छेदनेन पर्यवस्यति स्म।
प्रशिक्षणार्थं चत्वारि युद्धनौकाः कराच्ची समुद्रतीरे।
नवदेहली > भारतीय महासमुद्रे  आधिपत्यं स्थापितुं चैनायाः श्रमं द्रढीकुर्वन्तः चत्वारि चीनीय युद्धनौकाः पाक्किस्थानस्य समुद्रकूले आगताः। पाकिस्थानेन सह चैनायाः बन्धं दृढीभवति इति भारतः चिन्तयति। चतृणां दिनानां प्रशिक्षणार्थं युद्धनौकाः पाक्किस्थानम् आगताः। गतशनिवारे युद्धनौकाः पाक्किस्थानम् आगताः इति चैनायाः औपचारिक वार्तादलेन व्यकतीकृताः।
द्वायोः राष्ट्पतेः परस्परधारणा तथा विश्वासश्च वर्धयितुं सन्दर्शनमिदं साहाय्यं करोति इति चैनीस् पीप्पिल्स् लिबरेषन् आर्मी कमाण्डर सहन् हू अवदत्। राष्ट्रयोः नविकसेनयोः परस्परं आशयविनिमयं साध्यते  तद्वारा विश्वसमाधानं च साध्यते इति सः  अयोजयत्।
चीनायुद्धनौकायां पाक्किस्थान नाविकसेना मेधाविनं गार्ड् आफ् ओर्णर् अयच्छत्। चीना कर्यकर्तारः पाक्किस्थानः कार्यकर्तृभिः सह चर्चां करिष्यन्ति।
पूर्वं चैनायाः अन्तर्वाहिनी कराच्ची तीरे आगता इति सूचना लब्धा आसीत्। मासेभ्यः पूर्वं गूगिल् एर्त् मध्ये आगतं चित्रं बहिरागतम्। गतमेई मासे कराच्ची समुद्रतीरे चैनायाः अन्तर्वाहिनी आगता। भारत महासमुद्रे स्व स्वाधीनं वर्धयितुं तेषां श्रंममिति भारतीय प्रतिरोधकार्यकर्तारः निरीक्षणं कुर्वन्ति।
गगने यन्त्रं शिथिलं जातम्। विमानं सुरक्षितरूपेण अवतारितम्।
सिड्नी> यन्त्रभागे बृहद्वारस्य दर्शनेन डयितं विमानं सुरक्षितरूपेण अवतारितम्। सिड्नीतः चैनायाः षाङ्हायं प्रति गन्तव्यं चैना ईस्टेण् विमानं सुरक्षितरूपेण अवतारितम्। एयर्बस् ए ३३०-२०० ट्विन् जड् विमानं सोमवासरे अद्भुततया रक्षां प्रापत्। सर्वे यात्रिकाः सुरक्षिताः इति अधिकृतैः उक्तम्।
 विमानस्य उद्डयनानन्तरं दक्षिणयन्त्रभागे का अपि समस्या अस्तीति वैनानिकानां चिन्ता आगता। अनन्तरं विमानं अधः अवतारयितुं निर्णयं स्वीचकार। अवतरणानन्तरमेव भकरावस्था ते ज्ञातवन्तः। विमानस्य दक्षिणयन्त्रस्य बृहद्भागं पूर्णतया शिथलमासीत्। रोल्स् रोयिसेण निर्मितमस्ति विमानस्य यन्त्रम्। संभवमधिकृत्य परिशोधनां कुर्मः इति ते अवदन्।

Sunday, June 11, 2017

ऐ एस् भीकरा: सौदी अरेब्याम् प्रति युद्धं प्रख्यापितवन्त:
दुबाय् > सौदी अरेब्याम् प्रति युद्धम् प्रख्याप्य  ऐ एस् भीकरा: रङ्गे। टेहराने सप्तदशजनानां  हननकारणभूतस्य  आक्रमणस्य उत्तरदायित्वं स्वीकृत्य अनन्तरमपि सौदी अरेब्यायाम्  आक्रमणं कर्तुम् ऐ एस् निर्णय: अभवदिति  सैट् इन्टलिजन्स् निरीक्षणसङ्घ: आवेदितमस्ति। टेहरान् आक्रमणस्य  किञ्चित् पूर्वमेव मुखाच्छादकं धृत्वा पञ्च ऐ एस् भीकरै: कृत:  भीषणसन्देश: अन्तर्जालपटे आगत:। इरानस्य षिया मुहम्मदान्  सौदी अरेब्याया: सर्वकारांश्च भीकरा: भीषणं कुर्वन्ति। " भवतां राष्ट्रम् अतिक्रम्य  भवत: विरुद्ध्य आक्रमणं  कुर्म:।  वयं कस्यापि सहयोगिन: न भवाम: । वयम् अल्लाहौ तस्य दूते च विश्वसिम: " इत्यपि दृश्यचित्रसन्देशे वदन्ति ते। पूर्वमेव सिरियाया: इराखस्य च केषाञ्चन प्रदेशानां नियन्त्रणम्  ऐ एस् भीकरा: स्वीकृतवन्त:। किन्तु सौदीसुरक्षासेनाया: आक्रमणात्  बहुप्रदेशेभ्य: तै: पलायनं करणीयम् अभवत्। स्वीयविरुद्धशक्तिं सौदीम् अधीनं कर्तुं समर्थान् पद्धतीन्  दृढनिर्णयैस्सह रचयन्ति ऐ एस् भीकरा:।
जूलै प्रथमदिनाङ्कत: आयकरप्रत्यर्पणाय  नूतनस्थिरखातासङ्ख्यायै च आधारसमपत्रं निर्बन्धतया आवश्यकम् ।
नवदिल्ली>जूलै प्रथमदिनाङ्कत:  आयकरप्रत्यर्पणाय  आधारसमपत्रं निर्बन्धं कृतम्। स्थिरखातासङ्ख्ययापि  आधारसङ्ख्या बन्धनीया इति सी बी डी टी ( सेन्ट्रल् बोर्ड् ओफ्  डयरक्ट् टाक्सस्  ) ( साक्षात् करविभागस्य केन्द्रफलकेन )  विज्ञापनं कृतम् । स्थिरखातासङ्ख्यायुक्ता:  नूतनतया अपेक्षिताश्च  झटित्येव आधारसङ्ख्याम्   आयकरविभागस्य अधिकारिण:  ज्ञापयेयु: ।   आयकरप्रत्यर्पणाय तथा स्थिरखातासङ्ख्यालब्धये  च निर्बन्धतया आधारसमपत्रमावश्यकम्  इति नियमभेदगति:  न शासनघटनाविरुद्धा , किन्तु आधारसमपत्रस्याभावे  स्थिरखातासङ्ख्या असाधु: भविष्यति इति नियम: भागिकतया निरुद्ध्येदिति  परमोन्नतनीतिपीठस्य विधिन्याय: । केवलम्  आधारसङ्ख्यारहितानाम् कृते दीयमान: भागिकाश्वास: परमोन्नतनीतिपीठस्य विधिन्याय: इति, सम्प्रति  आधारसङ्ख्यारहितानाम्  स्थिरखातासङ्ख्या  असाधुर्न भवेदिति च  सी बी टी डी न्यवेदयत्। परमोन्नतनीतिपीठविधिन्यायम् पठितवन्त: धनकार्यमन्त्रालयस्य  तथा सी बी टी डी मध्ये विद्यमाना: उन्नततलसमितिरेव आधारनिर्बन्धाय निर्णयं स्व्यकुर्वन्। किन्तु स्थिरखातासङ्ख्याया: असाधुत्वे उपयोक्ता यान् कानपि वित्तकोशक्रयविक्रयान् वा कर्तुं नार्हति। आयकरप्रत्यर्पणसञ्चिकाकरणाय  नूतनस्थिरखातासङ्ख्याप्राप्त्यै च जूलै प्रथमदिनाङ्कादारभ्य  आधारसङ्ख्यानिर्बन्धं  कृतवन्त: इति उन्नतायकरविभागोद्योगस्थ: उक्तवान्। आधारसङ्ख्याभावे  स्थिरखातासङ्ख्या असाधु: भविष्यति  इति व्यवस्था प्रवृत्तिपथानयनात्  पूर्वम् भागिकतया निरुद्ध्येदिति  नीतिपीठस्थानां न्यायाधिपानाम् ए के सिक्रि:, अशोकभूषण:  एतेषाम् उत्पीठिकया व्यक्तीकृता।
काष्ठचुल्लीत: वैद्युति:-  दशमीकक्ष्याछात्र:  केरलस्य अभिमानतारम्।
आलप्पुषा>काष्ठचुल्लीत: वैद्युतिमुत्पाद्य  दशमकक्ष्याछात्र:, हरिप्पाटे पिलाप्पुषायां  ग्रीष्मायाम् आदित्यचन्द्रप्रशान्त: स्वीयगवेषणेन  प्रदेशस्य अभिमानम् अवर्धयत् । मलिनीकरणन्यूनकं वैद्युतोत्पादनसमर्थं  काष्ठचुल्ल्याम् प्रवर्तनक्षमम्   एक्को कुक्क् पवर् प्लस्  इति काष्ठचुल्ली एव एतस्य बालशास्त्रज्ञस्य सफलं शास्त्रनिरीक्षणम् ।  हरिप्पाटे सर्वकारमातृकाबालोच्चतरविद्यालयात्  दशमीकक्ष्या परीक्षायां सर्वविषयेषु  ए+ प्राप्तवान् अयं समर्थ: बाल:। ऐक्यराष्ट्रसभाधारस्य ग्लोबल्  अलयन्स् फोर् क्लीन् कुक्क् स्टौ  (मालिन्यरहितचुल्लीपचनागोलसहकरणकार्यक्रमे ) कार्यक्रमे स्थानम् प्राप्तवान्  अप्राप्यपूर्तीकृतवयस्क:  प्रथमव्यक्ति: अयम् । जप्पानस्य शास्त्रसाङ्केतिकसमित्या:तथा केन्द्रशास्त्रसाङ्केतिकविभागस्य च संयुक्ताभिमुख्ये  उच्चविद्यालयछात्राणां कृते  प्रचाल्यमाने  साक्कुरा युवजनविनिमयशास्त्रकार्यक्रमे सप्तदशोत्तरद्विसहस्रतमे केरलात् आदित्य: चित: आसीत्। जप्पाने शास्त्रसाङ्केतिकविदग्धै: नोबल् सम्मानजेतृभि:  सह संवादे भागं वोढुं तत्रत्य शास्त्रसाङ्केतिकसंस्था: सन्द्रष्टुं  कलाकार्यक्रमेषु भागभाक् भवितुं च आदित्यस्य अवसर: प्राप्त:। राष्ट्रपतिभवनस्य मुगलोद्याने मार्च् चतुर्थे प्रचलिते  गवेषणप्रदर्शनोत्सवे भागं गृहीत्वा  एक्को कुक्क्  पवर् प्लस् प्रोजक्ट् राष्ट्रपते: , केन्द्र शास्त्रसाङ्केतिकमन्त्रिण:, केन्द्र वनिता शिशुक्षेममन्त्रिण: च पुरत: अवतारितवान्। अमरीकाया: कोलराडो सर्वकलाशाला, ऐक्यराष्ट्रसभाया: परिस्थितिकार्यक्रम: , डेन्मार्क् साङ्केतिकसर्वकलाशाला या: गवेषणविभाग: एता: संस्था: एक्को कुक्क् पवर् प्लस्  प्रोजक्टं गवेषणाय चितवन्त:। ऐ एस् आर् ओ संस्थाया: आगामिविक्षेपणं साक्षात् द्रष्टुं श्रीहरिक्कोट्टाया: सतीश धवान बहिराकाशकेन्द्रम् प्रति आदित्यं निमन्त्रितवन्त:। एकादशकक्ष्यायां शास्त्रविषयं स्वीकृत्य पठितुमेव अयं वाञ्छति। जप्पानस्य टोकियो सर्वकलाशालायां नेगोया सर्वकलाशालायां  अनुवर्तिशिक्षणं वाग्दत्तमपि। मुद्रणयन्त्रव्यापारिण:प्रशान्तकुमारस्य राजी  प्रशान्तस्य च पुत्रोयम्। तस्य सहोदर: अतुलचन्द्रप्रशान्त:  नवमीकक्ष्यायां   सहोदरी  पार्वती चन्द्रप्रशान्त: षष्ठीकक्ष्यायां च पठत:। 
ऐ एस् द्वारा बन्दिन:कृता: 39 भारतीया: अपि मोसूले- सुषमा स्वराज:।
नवदिल्ली>त्रिवर्षेभ्य: पूर्वम् इराखे ऐ एस् भीकरै: बन्दिन: कृता: नवत्रिंशत्  भारतीया: अपि मोसूले जीवन्त: सन्तीति केन्द्रसर्वकार:। विदेशकार्यमन्त्रिणी सुषमा स्वराज:  एतदनुबद्धकार्याणि असूचयदिति बन्दिन: कुटुम्बाङ्गानि न्यवेदयन्। इराखसेना ऐ एस् भीकरै: सह रूक्षयुद्धं प्रचलन्ती इराखस्य उत्तरप्रविश्या एव मोसूल:। ऐ एस् सकाशात्  मोसूलस्य नवतिप्रतिशतम् भागान् इराखीसेना प्रतिस्व्यकरोत्  तथापि भारतीयान् बन्दिन: न दृष्टवन्त:। किन्तु  एते सर्वे ऐ एस् नियन्त्रणे विद्यमानायाम्  मोसूल् मेखलायाम् भवितुमर्हन्ति इति सूषमा स्वराज: न्यवेदयदिति  बन्दिषु एकस्य कुटुम्बाङ्गम् गुरपीन्दर कौर: न्यवेदयत्। इराखे बन्दिन: अन्वेषणं सम्बद्ध्य केन्द्रसर्वकार: एतावता मौनमभजत। तन्मध्ये एकादशवारम् बन्दिन: मोचनं सम्बद्ध्य बान्धवा: केन्द्रसर्वकारेण सह चर्चाम् कृतवन्त:। चतुर्दशोत्तरद्विसहस्रे जूण् चतुर्दशे एव  ऐ एस् भीकरा: नवत्रिंशत् भारतीयान्  अपहृतवन्त:। तुर्कीस्वकीये मोसूले प्रवर्तमानात् निर्माणकार्यालयात् बाग्दादम् प्रतिगमनमध्ये  चतुर्दशोत्तरद्विसहस्रे जूण् एकादशदिनाङ्के भारतीयान् भीकरा: अपाहरन्। पञ्चाब, बङ्गालस्वदेशिन: एतेषु भूरिजना:।
शुनकानां विपणने अपि नियन्त्रणम्।
नवदिल्ली> वाणिज्यं लक्ष्यीकृत्य शुनकानां प्रजननाय विक्रयणाय च केन्द्रसर्वकारेण नूतनव्यवस्थानियन्त्रणादिकम् आयोजितम्। प्राणिहिंसानिरोधननियमस्य आधारे एव नूतनव्यवस्था आयोजिता। धेनुनाम् अलङ्कारमत्स्यानां च विक्रयण-प्रदर्शनमधिकृत्य आयोजितेन नियन्त्रणेन सह एव केन्द्रवनं-परिस्थितिमनत्रालयेन सारमेयानां कृते अनुशासनं कृतम्।
     मासद्वयोनानां शुनकानां विक्रयणं निरुध्यते। बालशुनकानां परीक्षणार्थं विक्रयः अपि निरुध्यते। प्रजननकेन्द्रेषु अवश्यमानाः सुविधाः करणीयाः। यथेष्टं भोजनं जलं स्थानम् इत्यादयः सज्जीकरणीयाः इत्यपि नूतनविज्ञापने अन्तर्भावितमस्ति।

Saturday, June 10, 2017

इराने स्थानद्वये  ऐ एस्  भीकराक्रमणम्;  द्वादश मरणानि।
टेहरान्>  इरानस्य नियमनिर्माणसभायाम् ( पार्लमेन्ट् )  तथा परमोन्नतनेतु:  आयत्तुल्ला खुमैने: अन्त्यविश्रमस्थाने च  प्रवृत्ते सन्नद्धमरणभीकराक्रमणे द्वादशजना: हता:  । द्विचत्वारिंशत्  जनानां  क्षता: अभवन्  ।नियमनिर्माणसभायाम् घण्टा: यावत् प्रवृत्तसङ्घट्टनानन्तरं  चतुर: भीकरान् सुरक्षासेना अहनत् । द्वन्द्वाक्रमणयो:  दायित्वम्  भीकरसङ्घटनेति ख्याता ऐ एस्  सङ्घटनया स्वीकृतम् । षिया भूरिपक्षराष्ट्रे इराने  षियाविरुद्धै: ऐ एस् भीकरै: क्रियमाणम् प्रथमम् भीकराक्रमणम् एतत् ।षियामुहम्मदान्  मतद्रोहिन:  इति पश्यन्तीम् ऐ एस् सङ्घटनां विरुद्ध्य  सिरियायाम् इराखे च युद्धरङ्गे  इरानाश्रित्य स्थिता: षियाविभागा: एव । मध्यटेहराने नियमनिर्माणमन्दिरे  ह्य: प्रात: प्रवृत्ते  सम्मेलनमध्ये  एव यन्त्रभुशुण्डिभि: सह  चत्वार: सन्नद्धमरणा:  अतिक्रम्य प्रविष्टा:। एतेषु एक:  स्फोटनेन सह स्वयंम् भग्नगात्रश्च अभवत् । चत्वारोपि स्त्रीवेषे आगता: इति  इरानस्य आभ्यन्तरमन्त्री  मुहम्मद: हुसैन् सुल्फगारि:  अवदत् । पञ्चाधिकघण्टा: यावत्  प्रवृत्तस्य सैनिकप्रवर्तनस्य  पश्चात् भीकरा: सैनिकाधीना: जाता: इति अधिकारिण: न्यवेदयन् । नियमनिर्माणसभायाम् आक्रमणस्य समनन्तरमेव सन्नद्धमरणानाम्  अन्य: सङ्घ:  इरानस्य विप्लवनायकस्य आयत्तुल्ला खुमैने:  अन्त्यविश्रमस्थानम् अपि आक्रामत् । तस्य अन्त्यविश्रमस्थानयुतस्य स्मारकस्य समीपं सन्नद्धमरणानां स्फोटनम् प्रवृत्तम् इति वदन्ति । भीकरेषु  एकं सैनिका: अहनत्  एकां स्त्रियं गृहीतवन्तश्च इत्यपि आवेदयन्ति ।
मोसूल्- रक्षां प्राप्तुं परिश्रमान् २३० जनान् ऐ एस् अहन् मृतेषु बालकाः अपि।
जनीवा> इराखस्य पश्चिम मोसूल् क्षेत्रात् पलायितं परिश्रमान् २३० जनान् इस्लामिक स्टेट् भीकराः अघ्नन्। यु एन् मनुष्यावकाश विभागमेधाविना सेयिद् राद् अल् हुसैनेन प्रख्यापितं इदम्। गतमासस्य षोडशदिनादारभ्य गणनमिदम्। मोसूलस्य समीपात् अल् षिफात् पलायितं परिश्रमान् पञ्चबालकैः सह सप्तविंशति जनान् मेई २६ दिनाङ्के अग्निगोलैः अघ्नन्।
अल्षिफायामेव गतमासस्य प्रथमे १६१ जनान् तृतीये ४१ जनान् च अघ्नन्। निरपराधिनां हननं युद्धापराधमस्तीति सेय्देन उक्तम्। धावतां बालानां हननं मृगीयमेवेति सः अयोजयत्।
अलङ्कारमत्स्यविपण्यां केन्द्रसर्वकारस्य नियन्त्रणम्।
कोच्ची>अलङ्कारमत्स्यानां परिपोषणे , प्रदर्शने , विक्रयणे च केन्द्रसर्वकारेण नियन्त्रणम् आयोजितम्। वनं - परिस्थितिमन्त्रालयेन असाधारण "गसट्" द्वारा एतदधिकृत्य विज्ञापनं प्रकाशितम्।
    १५८ प्रकाराणां मत्स्यानाम् एतन्नियन्त्रणेन बाधते। अलङ्कार - वत्सलमत्स्यानां स्वास्थ्यं शुचित्वम् इत्यादीनां स्थिरीकरणमेव अस्य विज्ञापनस्य लक्ष्यमिति उच्यते।  अनेन विज्ञापनेन  स्फाटिकपात्रेषु अलङ्कारमत्स्यानां पोषणं निरुद्धम्। अलङ्कारमत्स्यानां प्रदर्शनं विक्रयणं च निरुद्धम्। पोषणकेन्द्रेषु मत्स्यविदग्धस्य पशुवैद्यस्य वा सेवनम् आवश्यकम्।

Friday, June 9, 2017

चैनाया:  पाकिस्थानस्य च भीषणिम् अभिमुखीकर्तुम् भारतं सन्नद्धम्;      सेनाध्यक्षः।
नवदिल्ली >राष्ट्रान्तस्था: बहिस्थाश्च भीषणी:  अभिमुखीकर्तुम्  भारतसेना सन्नद्धेति सैनिकमेधावी  जनरल् बिपिन रावत्त: उक्तवान् । चैनापाकिस्थानयो: भीषणी: अभिमुखीकर्तुं तथा राष्ट्रे सुरक्षासज्जीकरणाय च भारतं सन्नद्धमेव , स: योजितवान् । जम्मु काश्मीरे  घटना:  समीपे एव सामान्यस्थितिम् प्राप्स्यन्ति इत्यपि विश्वसितीति   रावत्त: अवदत् । काश्मीरे यूनाम् मध्ये अबद्धधारणायुक्तदृश्यचित्राणि तथा सन्देशांश्च प्रचारयन्ति पाकिस्थानम् । तथा तत्र आकृष्टा: एतान् सन्देशान् अधित्यकायाम् न केवलम् प्रचारयन्ति किन्तु युवजनान् भीकरसङ्घटनाम् प्रति योजनाय प्रेरयन्ति च । प्रतिरोधसंविधानस्य  आधुनीकरणमधिकृत्य केन्द्रसर्वकारेण सह चर्चा क्रियमाणा वर्तते इत्यपि स: उक्तवान् । काश्मीरसङ्घर्षं  ""छायायुद्ध""मिति  विशेषितवान् रावत्त: तस्य हीनपरिश्रमम् अधिकृत्यापि  असूचयत् । वृत्तिहीनरीत्या काश्मीरे  एतादृशकार्याणि  प्रचारयन्ति । गत चत्वारिंशत् वर्षाभ्यन्तरे  भारत - चैनासीमायाम्  एकमपि गोलिकास्त्रम् प्रयोक्तव्यं नाभवत् इति प्रधानमन्त्रिणापि सूचितमेव । महते युद्धायापि भारतं सन्नद्धमेव । किन्तु तस्मै युद्धाय भारतेन सज्जता क्रियते , न तत् किञ्चन राष्ट्रं विरुद्ध्य इत्यपि रावत्त: सगौरवम् उक्तवान् ।
इत: परम् प्रतिदिनम् मृत्तैलमूल्यं नवीकरिष्यति: जूण् षोडशदिनाङ्कत: प्राबल्ये।
 नवदिल्ली >राष्ट्रे मृत्तैलमूल्यम् प्रतिदिनं नवीकर्तुं सामान्यमेखलातैलशालानां निर्णय:। अस्य मासस्य षोडशदिनाङ्कत: एषा रीति: राष्ट्रे सर्वत्र प्राबल्यम्  भवेत्। पूर्वम्, परीक्षणरूपेण पञ्चनगरेषु गतमासे एषा रीति: प्रवृत्तिपथम् आनीता आसीत्। तैलमूल्यपरिष्कार: पक्षे एकवारम् इति रीति: अवलम्बिता आसीत् राष्ट्रे। किन्तु आगोलविपणिषु  सर्वत्र दिनम् प्रति तैलमूल्यपरिष्करणरीति: अनुवर्तते।  गतमईमासे प्रथमदिनाङ्कत: एव   राष्ट्रे पञ्च नगरेषु  प्रतिदिनं तैलमूल्यम् परिष्कृत्य परीक्षितम् । विशाखपत्तनम्,पुतुच्चेरी, जंषड्पुरम् , चण्डिगढ:, उदयपुरम्  एतेषु नगरेषु  परीक्षिता एषा रीति:।।

Thursday, June 8, 2017

१२० यात्रिकैः सह अप्रत्यक्षस्य म्यान्मार विमानस्य अवशिष्टानि प्राप्तानि।
याङ्कूणः>१२० यात्रिकैः सह अप्रत्यक्षस्य म्यान्मार विमानस्य अवशिष्टानि प्राप्तानि। आण्डमान समुद्रे विमानस्य इति शङ्कितानि अवशिष्टानि प्राप्तानि। सेनापुरुषाः तेषां परिवारः मिलित्वा १०६ यात्रिकैः तथा चतुर्दश विमान कर्मकाराः च आसन् विमाने। दावे नगरात् १३६ कि मी दूरे अवशिष्टानि प्राप्तानि। अन्वेषणं प्रचलति। विमानानि नौकाः च अन्वेषणे भागं भजन्ति।
दक्षिणनगरस्य मेय्कस्य रंगूणस्य च मध्ये विमानं अप्रत्यक्षं जादम्। प्रादेशिकसमयं मध्याह्ने १.३५ समये विमानेन सह बन्धं च्छिन्नं जातम्। विमानस्य केनापि साङ्केतिक समस्याहेतुना अप्रत्यक्षं जातमिति सूचना।