OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, October 18, 2020

 भारते कोविड्रोगिणः सम्प्रति अष्टलक्षादधः। प्रथमसोपाने ३० कोटिजनेभ्यः प्रत्यौषधं दीयते। 

   नवदिल्ली> सार्धमासानन्तरं राष्ट्रे कोविड्परिचर्यावर्तमानानां संख्या शनिवासरे अष्टलक्षादधः जातः [७,८५,८८६]। किन्तु अमितात्मविश्वासस्य कालः नागतः, सामाजिकदूरमभिव्याप्य सर्वाः रोगनिर्मार्जनप्रक्रियाः अतिजाग्रतया अनुवर्तव्याः इति प्रधानमन्त्री नरेन्द्रमोदी आह्वयत। कोविडवलोकनोपवेशने भाषमाणः आसीत्सः। 

  त्रिविधकोविड्प्रत्यौषधस्य साक्षात्कारः अन्तिमसोपानमाश्रियते इति प्रधानमन्त्रिणा उक्तम्। वितरणस्य प्रथमसोपाने ३० कोटिजनेभ्यः पूर्वतामानदण्डमनुसृत्य औषधं दास्यते।