OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, October 4, 2020

  महात्मा गांधी-लालबहादुरशास्त्री" जयन्त्युत्सव: सम्पन्नः


        जयपुरम्> विगते ०२ अक्टूबर २०२० तमे दिनांके सायं ५.०० वादने गूगल मीट ई-मञ्चोपरि "महात्मागांधी- लालबहादुरशास्त्री" इत्यनयोः जयन्त्युत्सवस्य आयोजनं संस्कृतभारती-जयपुरविभागेन कृतम्। भारतीयपरम्परानुसारेण कार्यक्रमस्य शुभारंभं अभिषेकशर्ममहोदयेन मंगलाचरणेन कृतम्। 

कार्यक्रमस्य प्रास्ताविकं संस्कृतभारती-जयपुरमहानगरस्य सहमन्त्री: श्री अमितभारद्वाजमहोदयेन प्रस्तुतम्।

कार्यक्रमे विभिन्नस्थानात् शिक्षकगण: छात्रगण: च स्वकीय विषयस्य प्रस्तुतिं दत्तवन्त:। तेषु सर्वप्रथमं सविनकुमारः, राधिकाश्रीमाल, अभिषेकचौधरी, कोमलजांगिड़, चेतनशर्मा, अंकितटांक:, घनश्यामसेन:, संगीताशर्मा च महात्मागांधी-लालबहादुरशास्त्री-इत्यनयो: स्वकीय विचारा: कार्यक्रमे उक्तवन्त:। तदनन्तरं कार्यक्रमस्य मुख्यवक्तारूपेण डॉ. रघुवीरशर्ममहोदय: ( सम्पर्कप्रमुख:, संस्कृतभारती, जयपुरप्रान्त:) महात्मागांधी-लालबहादुरशास्त्री-इत्यनयो: प्रेरणास्पद: शिक्षाप्रद: च तथ्यानि उक्तवन्त:। अस्मिनैव क्रमे कार्यक्रमे उपस्थित विद्वज्जनानां धन्यवादज्ञापनं श्री कानारामचौधरीमहोदयेन (संयोजक:, संस्कृतभारती, जयपुरविभाग:) कृतम्। कार्यक्रमे सन्तोषशर्ममहोदय: (मन्त्री:, संस्कृतभारती, जयपुरमहानगरम्), मनोजशर्ममहोदय: (सहमंत्री:, संस्कृतभारती, जयपुरमहानगरम्), प्रकाशरंजनमिश्रमहोदय: (विश्वसरैयानगरस्य शिक्षणप्रमुख:), डॉ. अभिनवोपाध्यायः (सहसंयोजक:, संस्कृतभारतीजयपुरविभाग:), दीपकः शास्त्री (प्रचारप्रमुख:, संस्कृतभारती, जयपुरमहानगरम्), पुष्पेन्द्रसिंहनरुकामहोदय: (संयोजक:, संस्कृतभारती, टोंक:), राजकुमारशर्ममहोदय:, शुभमशर्ममहोदय:, डॉ. के. साम्भशिवमूर्तिमहोदय: (विभागाध्यक्ष:, राजस्थानसंस्कृतविश्वविद्यालयस्य शिक्षाविभागे) च आसन्। अन्ते कार्यक्रमस्य सञ्चालिका डॉ. वन्दनाशर्मामहोदया कल्याणमन्त्रेण कार्यक्रमस्य समापनं कृतवती।

वार्ताहर: - दीपकः शास्त्री