OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, October 9, 2020

 केन्द्रमन्त्री रामविलासपास्वानः दिवंगतः। 

 


  नवदिल्ली> केन्द्रसर्वकारस्य भक्ष्यमन्त्री तथा 'सोष्यलिस्ट्' राजनैतिकपरम्परायां प्रमुखः, लोक जनशक्ति पार्टी [एल् जे पी] नामकदलस्य नेता रामविलासपास्वानः [७४] दिवंगतः। हृद्रोगबाधया सः सप्ताहात् पूर्वं दिल्लीस्थे 'एयिंस्' आतुरालये प्रवेशितः आसीत्। 

  प्रायोगिकराजनैतिकस्य प्रवक्ता पास्वानः दशाब्दशः भारतस्य विविधासु मन्त्रिसभासु प्रमुखस्थानम् अलङ्कुर्वन्नासीत्। अधिकारराजनैतिकमार्गे तस्य यूपीए एन् डि ए भेदः नासीत्। बिहारस्थात् हाजिपुरमण्डलात् सप्तवारं सः लोकसभासदस्यः आसीत्। इदानीं राज्यसभासदस्यत्वेनैव केन्द्रमन्त्रिसभाङ्गत्वं प्राप्तवान्। 

  १९८९तमे वि पि सिंहस्य नेतृत्वे वर्तिते मन्त्रिमण्डले कर्ममन्त्रिरूपेण स्थानारोहितः सः तदनन्तरितेषु देवगौडः,  ऐ के गुज्रालः, ए बी वाजपेयी, मन्मोहनसिंहः, नरेद्रमोदी इत्येतानां नेतृत्वे रूपीकृतेषु सर्वेष्वपि मन्त्रिमण्डलेषु राजनैतिकास्पृश्यतां विना मुख्यस्थानं प्राप्तुं सः स्वकीयकौशलं प्रयुक्तवान्।