OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, October 1, 2020

 गान्धीजयन्तीदिने संस्कृतेन सह द्वादशभिः भाषाभिः आत्मसाक्षात्कारस्य कृते योगः- सार्वजनिककार्यक्रमः

        गान्धीजी एवं शास्त्रिजी जयन्त्युत्सवदिने 2 अक्टोबर् 2020 तमे दिनाङ्के भारतस्य क्षेत्रीयाभिः राष्ट्रियाभिः च भाषाभिः कुण्डलिनीजागरणम् एवं आत्मसाक्षात्कारस्य कश्चन अन्तर्जालीयः सार्वजनिकः कार्यक्रमः भविष्यति। अस्मिन् कार्यक्रमे मुख्यम् आकर्षणं नाम आरम्भिकायाम् एकस्यां होरायां संस्कृतेन सुदीर्घः कार्यक्रमः भविष्यति, यः अक्टोबर् मासस्य द्वितीयदिनाङ्के प्रातः अष्टवादनतः नव वादनपर्यन्तं https://www.sahajayoga.org.in/live इत्यत्र प्रसारितः भविष्यति।

       


एषः कार्यक्रमः पूज्यश्रीमाता-निर्मलादेव्याः अमूल्य-शिक्षणानाम् अनुसरणेन कुण्डलिनीजागरणस्य आत्मसाक्षात्कारस्य च अनुभवाय अस्ति । सामान्यजनानां कृते निःशुल्करूपेण अयं कार्यक्रमः प्रसार्यते । तेषामपि अन्तः विद्यमानायाः कुण्डलिनीशक्त्याः माध्यमेन प्रतिरोधकशक्तेः वृद्धिः, एवं रोगनिरोधकशक्तेः परिरक्षा च भविष्यति। यतो हि अस्य कार्यक्रमस्य मुख्यम् उद्देश्यश्यं शारीरकमानसिकविकासः एवम् आध्यात्मिक-उन्नतिः एव अस्ति। परमपूज्य श्रीनिर्मलामातुः शिक्षायाः अनुसारं कुण्डलिनी मनुष्यस्य आध्यात्मिक-उत्थानम् एवं आध्यात्मिकशक्तिपरिरक्षणं  च करोति । 

       अस्यां दिशि अस्माकं सर्वप्रयत्नाः सर्वतोमुखेन प्रचलन्तः सन्ति। सर्वोऽप्ययं कार्यक्रमः सम्पूर्णरूपेण निःशुल्कः विद्ते। भारतस्य सर्वकोणेभ्यः सामान्यजनाः अस्माकं पद्धतिं जानीयुः इति अस्माकम् इच्छा वर्तते। 

       परमपूज्य श्रीमाताजीनिर्मलादेवी या स्वयं काचित् स्वतन्त्रसेनानिनी वर्तते।, तस्याः महात्मागान्धी एवं लालबहद्दूर् शास्त्री इत्याभ्यां सह गाढः आध्यात्मिकः सम्बन्धः आसीत्। माताजी अस्माकं प्रसिद्धा आध्यात्मिकगुरुः वर्तते या अस्माकं कृते आत्मसाक्षात्कारस्य ज्ञानं दत्तवती। कुण्डलिनीजागरणविद्या अपि तयैव पाठिता । वैश्विकस्तरे अस्य ज्ञानस्य एवम् अनुभवस्य अग्रे नयनं करणीयम् । अन्यसाधकेभ्यः निःशुल्करूपेण ज्ञानं दातव्यम्। एतत्प्रयोजनं मनसि निधाय अक्टोबर् मासस्य द्वितीयदिनाङ्के एकदिवसीयकुण्डलिनीजागरणं बहुभाषी आत्मसाक्षात्कारः एवं सहजयोगध्यानकार्यक्रमश्च आयोजितः। अस्माकम् अनुभवो वर्तते यत् कुण्डलिनीशक्त्याः जागरणं एवम् आत्मसाक्षात्कारः इति अस्माकम् स्वदैनिकध्यानयोगे साहाय्यं करोति, यस्य परिणामेन अस्माकं रोगप्रतिरोधकशक्तिर्वर्धते। 

रष्यादेशीयानां द्वारा अनुभवार्थं स्वास्थ्यलाभकार्यक्रमः 1989 तमे वर्षे पूर्णरूपेण सर्वकारस्य सहयोगेन तत्र आयोजितः। तत्र सोवियत् सङ्घस्य स्वास्थ्यमन्त्री वैज्ञानिकानुसन्धानार्थम् धनमपि अदात्। पूर्वम् सोवियत् सङ्घेन सहजयोगयचिकित्सायां व्ययन्यूनता अपि अवलोकिता। आध्यात्मिक-उत्थानेन वैश्विकशान्तिः स्थापिता भवति। इति हेतोः संयुक्तराष्ट्रद्वारा निरन्तररूपेण 4 वर्षाणि यावत् परमपूज्यश्रीमाताजीनिर्मलादेवीम् आमन्त्र्य योगकक्ष्याः चालितवन्तः। परमपूज्य माताजीनिर्मलादेव्याः शिक्षायाः विषये अधिकविवरणार्थं संलग्नक 2 मध्ये पश्यतु। अयं कार्यक्रमः https://www.sahajayoga.org.in/live इत्यत्र प्रसार्यते ।