OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, September 9, 2018

नेपालाय  नौकानिलयम् उद्घाटयन् चीनादेशः। 

    काठ्मण्डू > नेप्पालराष्ट्रस्य पण्यवस्तुगतागताय चीनाराष्ट्रेण चत्वारः  नौकानिलयाः उद्घाट्यन्ते। नेप्पालाय भूरिशः साह्यानि निक्षेपान् च दत्वा अस्य राष्ट्रस्य उपरि भारतस्य अधीशत्वहानिं सम्पादयितुमेव चीनस्य लक्ष्यम्।  नेपालस्य पण्यवस्तुवाणिज्याय  भारतीयनौकानाम् आश्रयत्वं अनेन प्रायेण न्यूनं स्यात्।
   भारतस्य चीेनस्य च सीमांशहरः  नेपालः इन्धनसहितानि अवश्यवस्तूनि देशान्तरादानेतुं भारतीयनौकास्थानानि एव आश्रयन्ते स्म। परन्तु २०१५ - १६ कालांशे भारतसीमायाम् आयोजितेन उपरोधेन  वस्तुगतागते स्थगिते नेपालः मासान् यावत् इन्धनेभ्यः औषधेभ्यश्च महान्तं क्लेशमनुभवति स्म।तस्मादारभ्य अस्मिन् विषये परिहारमन्विष्यते नेपालेन । गतदिने काठ्मण्डु मध्ये नेपालचीनयोः कार्यकर्तारैः कृतायां  चर्चायामेव नौकाश्रयोद्घाटनाय सन्धिः कृतःI