OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, September 29, 2018

गुड्मोणिङ् मास्तु; नमस्ते वदतु- उपराष्ट्रपतिः
-रम्या पी यू

         पनाजी>गुड्मोणिङ्,गुड् आफ्टर्नूण्, गुड्नैट् इत्यादीनां स्थाने भारतीयाः नमस्कारं वदेयुः इति उपराष्ट्रपतिः वेङ्कय्य नायिडुः। शुक्रवासरे गोवायाम् एन् ऐ टी मध्ये प्रवृत्तायाम् बिरुददानवेलायाम् भाषमाणः आसीत् सः। "आङ्गलभाषाविरोधी नाहम्" किन्तु, भारतीयेषु ब्रिटिशकोलनिवत्करणस्य मनोभावः मा भूयादिति च उपराष्ट्रपतिः उक्तवान्। "नमस्कारः" भारतसंस्कारस्य अनुयोज्यः। प्रातः, सायं, रात्रौ वा समयभेदं विना एतत् उपयोक्तुं च शक्यते। समीपदिनेषु मातृभाषासंरक्षणविषये भाषमाणे आङ्गलेयं "व्याधिः"इति अनेन उद्घुष्टेति माध्यमाः आवेदयन्, तस्मिन् विषयेपि विशदीकरणम् अयच्छत् सः। व्याधिरिति सूचितेन आङ्गलेयं नोद्दिष्टम् ब्रिटिशशासनानन्तराङ्गलेयमनोभावमुद्दिश्य  तथा कथितमित्यपि सः व्यक्तीकृतवान्। परम्परागतबिरुददानवेलायां छात्रैः ध्रियमाणं कृष्णवर्णीयं प्रावारकं नासीत् इत्यतः एन् ऐ टी अधिकारिणः अभिनन्दितवान् सः।