OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, October 31, 2021

 मार्पाप्पाय भारतं प्रति आमन्त्रणं - मोदी पाप्पासमागमः हृद्यः। 

वत्तिक्काननगरम्> जी - २० शिखरसम्मेलने भागं कर्तुं इट्टलीं प्राप्तः भारतप्रधानमन्त्री नरेन्द्रमोदी शनिवासरे वत्तिक्काने  ईशवीयानाम् आगोलधर्मसभायाः परमाध्यक्षः श्रीमान् फ्रान्सिस् मार्पाप्पेण सह मेलनमकरोत्। भारतं प्रति मार्पाप्पावर्याय भारतं प्रति मोदी आमन्त्रितवान्, पाप्पस्तु आमन्त्रणं स्वीकृतवान् च। 'बहूष्मलः समागम' इति नरेन्द्रमोदी चरित्रपरमिदं सन्दर्शनमधिकृत्य प्राशंसत। 

   इदम् आमन्त्रणं मूल्यातीतः पुरस्कारः इव, भारतपर्यटनाय उत्कण्ठितोऽस्मि इति आसीत् मार्पाप्पावर्यस्य अस्मिन् विषये वाक्प्रतिक्रिया  पुरस्कारः भारतसन्दर्शनाय आकांक्षते इति पाप्पावर्येणोक्तम्। ह्यः मध्याह्ने १२वादने [भारतीयसमयः] वत्तिक्कानस्थे पेप्पल् हौस् मध्ये ग्रन्थशालायामासीत् तयोः सौहार्दसंवादः।सुस्मेरवदनो भूत्वा स्वयं प्रत्युत्क्रामन् हस्ताभ्यां दृढं आश्लिष्यन् एव मोदिनं आसनं प्रत्यानयन् च आध्यात्मिकाचार्यः सः आदृतवान्। २० मिनिट् यावत् इति पूर्वनिश्चितः सः समागमः सपादैकहोरापर्यन्तं दीर्घितः अभवत्। पर्यावरणव्यत्ययः, दारिद्र्यनिर्मार्जनं, विश्वशान्तेः आवश्यकता, कोविड्प्रतिरोधप्रवर्तनानि इत्यादयः चर्चाविषयाः जाता‌ः।