OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ संस्कृतेन सर्वदा व्यवहर्तुं प्रयतत - जगद्गुरु भारतीतीर्थस्वामिनः। व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, August 3, 2017

 “मनोगतम्” [34]
 (प्रसारण-तिथि:- 30.07.2017)
[“मनोगतम्” - इति “मन की बात”-कार्यक्रमस्य संस्कृत-भाषिकानुवादः]                                  
                     -  भाषान्तर-कर्ता -    बलदेवानन्द सागरः 
मम प्रियाः देश-वासिनः !
            नमस्कारः| मानवस्य मनः एव तादृशं यदस्मै वर्षाकालः रोचते| कालोsयम् अतितरां रमणीयः| पशु-पक्षि-पादप-वृक्ष-प्रकृति-इति प्रत्येकमपि वर्षायाः आगमनेन प्रफुल्लताम् अनुभवति| परञ्च कदाचित् यदा प्रकृतिः विकरालं रूपं धत्ते तदा अनुभवामः यत् जलस्य विनाश-शक्तिः कियती बलवत्तरा भवति ? प्रकृतिः अस्मभ्यं जीवनं ददाति, पालयति च, परञ्च कदाचित् जलपूर-भूकम्प-सदृशीभिः प्राकृतिकापद्भिः सह अस्याः भीषणं स्वरूपं बहु विनाशकारि भवति| परिवर्तमाने ऋतु-चक्रे पर्यावरणे च यत् किमपि परिवर्तते, तस्य बृहत्तरः नकारात्मकः प्रभावः अपि सञ्जायते| विगतेभ्यः कतिपय-दिनेभ्यः भारतस्य केषुचित् भागेषु, विशेषेण असमोत्तरपूर्व-गुजरात-राजस्थान-बङ्गालेषु अतिवृष्टि-कारणात् प्राकृतिकापदः सम्मुखीक्रियन्ते| जलपूर-प्रभावितानां क्षेत्राणां पूर्णम् अवेक्षणं विधीयते| व्यापक-स्तरेण साहाय्य-कार्याणि अनुष्ठीयन्ते| यत्र शक्यमस्ति तत्र मन्त्रि-परिषदः मम सहकर्मिणः
अपि यान्ति| राज्य-प्रशासनानि अपि स्व-स्व-पद्धत्या पूर-प्रपीडितानां साहाय्यार्थं समग्रतया प्रयतन्ते| सामाजिक-संघटनानि अपि, सांस्कृतिक-संघटनानि अपि, सेवाभावेन कार्य-निरताः नागरिकाः अपि, एतादृशीषु स्थितिषु जनेभ्यः साहाय्यं प्रापयितुं  सर्वात्मना प्रयतन्ते| भारत-प्रशासन-पक्षतः स्थल-सेनानां सैनिकाः स्युः वा वायु-सेनानां सदस्याः, NDRF- इति राष्ट्रियापदा-प्रबन्धन-बलस्य वा अर्ध-सैन्य-बालानां च जनाः भवेयुः, सर्वेsपि एतादृशे काले आपत्-पीडितानां साहाय्यार्थं सर्वात्मना संलग्नाः भवन्ति| जल-पूरैः जन-जीवनम् अतितरां व्यग्रं व्याकुलं व्यस्तञ्च भवति| शस्यानि, पशुधनम्, आधारभूतानि साधनानि, मार्गाः, विद्युदापूर्तिः, सञ्चार-संपर्काः चेति सर्वमपि दुष्प्रभवति| विशेषेण, अस्मदीयाः कृषक-भ्रातरः, तेषां च कृषि-क्षेत्राणि शस्यानि च दुष्प्रभवन्ति| अतः एतेषु दिनेषु आगोप-समवायाः, विशेषेण च शस्यागोप-समवायाः पूर्वतः एव सक्रियतया व्यवहरेयुः इति कृत्वा योजना विरचितास्ति येन कृषकाः शीघ्रमेव स्वीय-प्रत्यर्थित्वं समाधातुं शक्नुयुः| अपि च, जलपूर-स्थितिं प्रतीकर्तुम् अहर्निशं नियन्त्रण-कक्षस्य सहायिनी दूरभाष-संख्या १०७८ इति अनारतं कार्यनिरतास्ति| जनाः अपि स्व-स्व-काठिन्यानि सूचयन्ति| वर्षर्तोः आगमनात् प्राक्, अधिकतमेषु स्थानेषु पूर्वाभ्यासं कृत्वा अशेषमपि प्रशासकीयं तन्त्रं सन्नद्धीकृतम् आसीत्| NDRF- इति राष्ट्रियापदा-प्रबन्धन-बलस्य गणाः नियोजिताः| नाना-स्थानेषु आपदा-मित्राणां निर्माणम्, तेषाञ्च कर्तव्याकर्तव्य-प्रशिक्षणम्, स्वयंसेविनां निर्धारणं चेति जन-संघटनं निर्मीय एतादृश्यां स्थितौ कार्याणि आचरणीयानि भवन्ति| एतेषु दिनेषु ऋतोः पूर्वानुमानमपि लभ्यते| साम्प्रतं प्रविधिः प्रोन्नतः जातः| अन्तरीक्ष-विज्ञानस्यापि अत्र महती भूमिका वर्तते| अस्य साहाय्येन पूर्वानुमानं प्रायेण समीचीनमेव जायते| शनैः शनैः वयमपि तादृशं स्वभावं स्वीकुर्मः येन ऋतोः पूर्वानुमानस्य अनुसारेण स्वीय-कार्य-कलापान् विरचयामः, एवं कृते सति वयं सम्भावितां हानिं परिहर्तुं शक्ष्यामः|
             यदा हि “मन की बात” इत्येतदर्थं सन्नद्धतां करोमि, अनुभवामि यत् देशस्य नागरिकाः मत्तोsपि अधिकतरं समुपकल्पयन्ति| अस्मिन् क्रमे तु GST- इति वस्तु-सेवा-कराधान-विषयकाणि अनेकानि पत्राणि अधिगतानि, नैकाः दूरभाष-समाकारणाः

अवाप्ताः, साम्प्रतमपि जनाः GST- इति वस्तु-सेवा-कराधान-विषये प्रसन्नतां प्रकटयन्ति, जिज्ञासामपि कुर्वन्ति| एकं दूरभाष-सम्भाषणम् अहं भवतः अपि श्रावयामि|      “नमस्करोमि ! प्रधानमन्त्रि-महोदय ! गुरुग्रामतः अहं नीतू-गर्गः वदामि| अहं Chartered Accountant day- इति लेखाकाराणां सम्मेलने भवता व्याहृतम् अभिभाषणं श्रुतवती, अतितरां च प्रभाविता जाता| एवमेव, अस्मदीये देशे विगते मासे अस्मिन्नेव दिने GST- इति वस्तु-सेवा-कराधानम् आरभत| किमेतत् वक्तुं भवान् शक्नोति यत् प्रशासनेन यथा अपेक्षितमासीत्, मासानन्तरमपि तादृशः एव परिणामः लभ्यते वा ? एतद्-विषये अत्रभवतः विचारान् श्रोतुमिच्छामि, धन्यवादः|”
          GST- इति वस्तु-सेवा-कराधानस्य प्रवर्तनं प्रायेण मासावधिकं जातम्, अपि चास्य लाभाः दृग्गोचरीभूयन्ते| अतितरां सन्तोषम् अनुभवामि प्रसीदामि च यदा कश्चन निर्धनः पत्रं लिखित्वा मां वदति यत् GST-कारणात् मम निर्धनस्य कृते आवश्यक-वस्तूनां मूल्यानि केन प्रकारेण न्यूनीभूतानि, केन प्रकारेण च वस्तूनि अल्प-मूल्यात्मकानि संवृत्तानि| यदि दूरे सुदूरे उत्तर-पूर्वीये दिग्विभागे पर्वतेषु काननेषु च निवसन् कश्चन जनः पत्रं लिखति कथयति च यद् GST-इति किमस्तीति आरम्भे अतितरां भीतिः अनुभूयते स्म| परञ्च यदाहम् एतद्-विषये अवगन्तुं शिक्षितुञ्च आरभम्, अनुभवामि यन्मम कार्यं पूर्वतः अपेक्षया सरलतरम् अजायत| व्यापारः अपि पूर्वापेक्षया अधिकः सरलः संवृत्तः| सर्वाधिकं महत्त्वपूर्णन्तु इदमेव यत् व्यापारिषु ग्राहकाणां विश्वासः सततं विवर्धते| नातिचिरम् अवलोकयन् आसम् यत् परिवहन-सम्भार-तन्त्र-क्षेत्रे GST- इत्यस्य कियान् प्रभावः जातः ? अधुना भारवाहि-यानानां गमनागमनं कियत् एधितम् ? दूरत्वं पूरयितुं केन प्रकारेण न्यूनतरः कालः लगति ? राजमार्गाः साम्प्रतं यानैः सम्मर्द-मुक्ताः सञ्जाताः| भारवाहि-यानानां गति-वर्धन-कारणात् प्रदूषणम् अपि अपचितम्| भार-सामग्री अपि सत्वरं गन्तव्य-स्थानानि प्राप्यते| एतत् सौविध्यं तु अस्त्येव, परञ्च युगपदेव आर्थिक-गतिरपि अनेन बलवत्तरा भवति| प्राक्, पृथक्-पृथक् करविधान-कारणात् परिवहन-सम्भार-तन्त्र-प्रभागस्य समधिकानि संसाधनानि आलेखन-पत्राणां संधारणे एव व्यापृतानि भवन्ति स्म, अपि च तेन प्रत्येकमपि राज्ये स्वीयाः नवीनाः पण्य-भूमयः निर्मेयाः भवन्ति स्म| GST- इत्येनम् अहं GOOD & SIMPLE TAX - इति समीचीन-सरल-कराधानमिति वदामि, सत्यमेव अमुना अस्मदीयायाम् अर्थ-व्यवस्थायाम् उपरि अति-न्यूनावधौ भूरिशः सकारत्मकः प्रभावः विहितः| यया जवीयस्या गत्या सुकरं परिवहनम् अभवत्, यया द्रुत-गत्या स्थानान्तर-गमनं जातम्, नूतनानि पञ्जीकरणानि सञ्जातानि| एभिः अशेष-देशे अभिनवः विश्वासः समुत्पादितः| अपि च, कदाचित् अर्थ-व्यवस्थायाः विशेषज्ञाः, प्रबन्धन-पण्डिताः, प्रविधि-प्रवीणाः च, भारतस्य GST-प्रयोगस्य अनुसन्धानं कृत्वा जगतः सम्मुखं आदर्श-पद्धति-रूपेण अवश्यमेव स्थापयिष्यन्ति| कराधानमेतत् विश्वस्य विश्वविद्यालयानां कृते विशिष्ट-प्रकरणाध्ययनत्वेन भविता| यतो हि एतावता बृहत्-स्तरेण एतावत् बृहत्तमं परिवर्तनम्, तथा च, तावति विशाले राष्ट्रे कोटि-कोटि-जनानां संपृक्ति-पुरस्सरं GST-प्रवर्तनं करणीयम्, तच्च, सफलता-पूर्वकम् अग्रेसारणीयम्, एतदस्ति - स्वयम्भूः बृहत्तमं साफल्य-सोपानम्| कदाचित् जगदिदं नूनम् एतद्-विषये अध्येष्यति| GST-प्रवर्तने सर्वेषामपि राज्यानां सहभागित्वं वर्तते, निखिलानां राज्यानां चात्र दायित्वमपि वर्तते| सर्वेsपि निर्णयाः राज्यैः केन्द्रेण च सम्भूय सर्व-सम्मत्या विहिताः सन्ति| अत एव परिणामत्वेन प्रत्येकमपि सर्वकारस्य एका एव प्राथमिकता अवर्तत यत् GST-कारणात् निर्धनोपरि न किञ्चिदपि आपीडः भवेत्| तथा च, GST-App - इत्यत्र भवन्तः सुगमतया ज्ञातुं शक्नुवन्ति यत् अस्य प्रवर्तनात् प्राक्, वस्तूनां मूल्यानि कियन्ति आसन्, नूतनायां च परिस्थितौ कियन्ति मूल्यानि भवितारः - एतत् सर्वमपि विवरणं भवतां जङ्गम-दूरभाषेण उपलब्धुं शक्यते| एकं राष्ट्रम्, एकं कराधानम् !! कियत् बृहत्तमं स्वप्नं पूर्णम् अभवत्| GST-विषये मया अनुभूतं यत् उप-जनपदतः आरभ्य भारतीय-प्रशासनस्य अधिकारिभिः समर्पण-भावेन यावान् परिश्रमः विहितः, अपि च, अमुना व्याजेन सर्वकारस्य व्यापारिणां च मध्ये, सर्वकारस्य ग्राहकाणां च मध्ये यः सौहार्द-परिवेशः समजनि, तेन पारस्परिक-विश्वासं विवर्धयितुं महती खलु भूमिका निर्व्यूढा| कार्येsस्मिन् संलग्नेभ्यः सर्वेभ्यः मन्त्रालयेभ्यः, सर्वेभ्यः विभागेभ्यः, केन्द्रस्य राज्य-प्रशासनानां च, सर्वेभ्यः कर्मकरेभ्यः हृदयेन भूरिशः वर्धापनानि वितरामि| GST-कराधानं हि भारतस्य सामूहिक-शक्तेः सफलतायाः अन्यतमम् उत्तमम् उदाहरणं वर्तते| एषा नाम ऐतिहासिकी उपलब्धिः| न च एषा केवलं कर-परिष्कार-पद्धतिः| एषा अस्ति- प्रामाणिकता-पूर्णायाः संस्कृतेः बलप्रदात्री काचित् नूतना अर्थव्यवस्था| प्रकारान्तरेण सामाजिक-परिष्कारस्य अभियानमपि इदमस्ति| पुनरेकवारम् अहम् - सफलता-पुरस्सरम् एतावन्तं बृहत्तमं प्रयासं सफलीकर्तुं कोटि-कोटिभ्यः राष्ट्रवासिभ्यः कोटि-कोटि-वन्दनानि अर्पयामि|
         मम प्रियाः देशवासिनः ! अगस्त-मासः क्रान्तेः मासत्वेन ख्यातः| अस्य कारणं सहजतया वयं बाल्यकालात् शृण्वन्तः आस्मः यत् विगत-शताब्दे विंशतितमे वर्षे अगस्तमासे प्रथम-दिने “असहयोगान्दोलनम्” आरभत| विगत-शताब्दे द्विचत्वारिन्शत्तमे वर्षे अगस्तमासे नवम-दिने “भारतं त्यजेति आन्दोलनम्” प्रारभत, यद्धि “अगस्त-क्रान्ति-रूपेण अभिज्ञायते| अपि च, विगत-शताब्दे सप्त-चत्वारिन्शत्तमे वर्षे अगस्तमासे पञ्चदशे दिनाङ्के देशोsयं स्वतन्त्रः अभवत्| प्रकारान्तरेण अगस्तमासे घटिताः अनेकाः घटनाः स्वतन्त्रतायाः इतिहासेन साकं विशेषतया सम्पृक्ताः सन्ति| ऐषमः वयं ‘Quit India Movement’ - भारतं त्यजेति आन्दोलनस्य पञ्च-सप्तति-तमां वर्षपूर्तिम् आयोजयिष्यामः| परञ्च, न्यूनाः एव जनाः तथ्यमिदं जानन्ति यत् ‘भारतं त्यजे’ति आघोषः डॉ.यूसुफ़ -महर-अली-वर्येण प्रदत्तः आसीत्| अस्मदीया नवीना वंशावली नूनम् अवगता स्यात् यत्   विगते शताब्दे द्विचत्वारिन्शत्तमे वर्षे अगस्तमासे नवम-दिने किम् अभवत् ? अष्टादश-

शताब्दे सप्त-पञ्चाशत्तम-वर्षतः विगत-शताब्दे द्विचत्वारिन्शततम-वर्षं यावत् येन स्वातन्त्र्य-संकल्पेन सह देशवासिनः समवेताः अभूवन्, संघर्षरताः संवृत्ताः, कष्टानि सोढवन्तः चेति इतिहासस्य पृष्ठानि नूनं भव्य-भारत-निर्माणार्थं अस्मदीय-प्रेरणा-स्रोतान्सि सन्ति| अस्मदीयाः स्वतन्त्रता-वीराः त्याग-तपस्या-बलिदानानि अर्पितवन्तः, एतेभ्योsधिकतरा प्रेरणा का नाम अन्या स्यात् ? भारतं त्यजेति आन्दोलनं हि भारतीय-स्वतन्त्रतान्दोलनस्य महत्त्वाधायी संघर्षः आसीत्| अमुना आन्दोलनेन हि ब्रिटेन्-देशीय-शासनात् मुक्तिम् अधिगन्तुं अशेषमपि राष्ट्रं संकल्पितं विहितम्| अयं हि सः कालः आसीत्, यदा आङ्ग्ल-शासनस्य विरुद्धं देशस्य प्रत्येकमपि कोणे भारतीय-जन-मानसम् एकीभूतम्| भवतु नाम सः ग्रामः वा पुरम्, भवन्तु नाम ते निरक्षराः वा साक्षराः, सन्तु नाम ते निर्धनाः वा धनिनः, प्रत्येकमपि जनः सम्भूय भारतं त्यजेति आन्दोलनस्य सहभागी जातः| जनाक्रोशः चरम-सीमानम् अतिक्रान्तः| महात्मनः गान्धिनः आह्वानम् अभिलक्ष्य लक्षशो भारतवासिनः “कार्यं साधयेयं देहं वा पातयेयम्”- इति समर्पण-मन्त्रेण सह स्व-जीवनानि स्वाधीनता-संघर्षार्थम् अर्पयन्तः आसन्| देशस्य लक्ष-लक्षाधिकाः युवानः निजाध्ययन-क्रमं त्यक्त्वा, पुस्तकानि विहाय च स्वतन्त्रतायाः दुन्दुभि-स्वरेण प्रेरिताः सन्तः प्रयाण-निरताः सञ्जाताः| अगस्त-मासे नवमे दिने भारतं त्यजेति आन्दोलनस्य कृते महात्मना गान्धिना आहूतम्, परञ्च, सर्वेsपि वरिष्ठाः नेतारः आङ्ग्ल-सर्वकारेण धृत्वा कारासु निगडिताः| इदं तत् कालखण्डमासीत् यदा डॉ.लोहिया-जयप्रकाश-नारायण-सदृशैः द्वितीय-वन्शीयैः महापुरुषैः अग्रिमा भूमिका निर्व्यूढा| विगत-शताब्दे विन्शतितमे वर्षे “असहयोगान्दोलनम्” विगते शताब्दे दविचत्वारिन्शत्तमे वर्षे च, “भारतं त्यजेति आन्दोलनम्,” अत्र महात्म-गान्धिनः पृथक्-पृथक् रूप-द्वयं दृग्गोचरीभवति| “असहयोगान्दोलनस्य” रूप-रङ्गौ पृथक् आस्ताम्, अपि च, दविचत्वारिन्शत्तमे वर्षे स्थितिः  तावती तीव्रतरा अभवत् यन् महात्मगान्धि-सदृशैः महापुरुषैः “कार्यं साधयतु वा प्राणान् त्यजतु”- इति मन्त्रः प्रदत्तः| जन-समर्थनम्, जन-सामर्थ्यम्, जन-संकल्पः, जन-संघर्षः चासन् अस्याः समग्रायाः सफलतायाः पृष्ठभूमौ|  कृत्स्नोsपि देशः एकीभूय संघर्ष-निरतः अवर्तत| कदाचिदहं चिन्तयामि यत् इतिहासस्य पृष्ठानि किञ्चित् समेत्य यदि अवलोकयामः चेत्, इदं सुनिश्चितं यत् भारतस्य प्रप्रथमः स्वतन्त्रता-संग्रामः अष्टादशे शताब्दे सप्त-पन्चाशत्तमे वर्षे सञ्जातः| अस्मात् संवत्सरात् आरब्धः स्वतन्त्रता-संग्रामः विगते शताब्दे दविचत्वारिन्शत्तम-वर्ष-पर्यन्तं प्रत्येकमपि क्षणे देशस्य यस्मिन् कस्मिन्नपि कोणे सुतरां प्रावर्तत| अमुना दीर्घ-काल-खण्डेन देशवासिनां हृदयेषु स्वाधीनतायाः तीव्रतरा लालसा जनिता| प्रत्येकमपि किञ्चिदपि कर्तुं तत्परः प्रतिबद्धः चासीत्| कालक्रमेण वन्शाः  व्यतीताः परम्, संकल्पेsस्मिन् किमपि नैयून्यं नैव जातम्| जनाः समवेताः भवन्ति स्म, संयुक्ताः अभूवन्, प्रयाताः सन्तः अवर्तन्त, नूतनाः जनाः आगताः, नवीनाः समवेताः,  तथा च, आङ्ग्ल-प्रशासनम् उन्मूलयितुं देशः प्रतिपलं प्रयतते स्म| अष्टादशे शताब्दे सप्त-पन्चाशत्तम-वर्षतः विगत-शताब्दे दविचत्वारिन्शत्तम-वर्ष-पर्यन्तं सञ्जात-संघर्षेण आन्दोलनाय तादृशी स्थितिः निर्मिता यत् दविचत्वारिन्शत्तम-वर्षम्, अत्र चरम-सीमत्वेन सिद्धम्, तथा च, “भारतं त्यजेति” - तादृश-दुन्दुभि-रवेण पञ्च-वर्षाभ्यन्तरे एव अर्थात् विगत-शताब्दे सप्त-चत्वारिन्शत्तम-वर्षे आङ्ग्लाः भारतं त्यक्तुं विवशीभूताः| विगते शताव्दे दविचत्वारिन्शत्तम-वर्षतः सप्त-चत्वारिन्शत्तम-वर्षं यावत् पञ्च-वर्षावधौ तादृशं जन-मानसं सज्जीभूतम् यत् संकल्पतः सिद्धि-पर्यन्तं पञ्च-निर्णायक-संवत्सरत्वेन अवधिरयं सफलता-पुरस्सरं देशस्य स्वातन्त्र्य-प्रदायि-कारणरूपेण परिणतः| एतानि पञ्च निर्णायक-वर्षाणि अवर्तन्त| 
     साम्प्रतमहं अमुना गणितेन साकं भवतः संयोजयितुं समीहे| विगते शताब्दे सप्त-चत्वारिन्शत्तमे वर्षे वयं स्वतन्त्राः अभवाम| अधुना विन्शशताब्दस्य सप्त-दशं वर्षं प्रवर्तते | प्रायेण सप्ततिः वर्षाणि व्यतीतानि| नाना प्रशासनानि आगतानि गतानि च | व्यवस्थाः प्रकल्पिताः, परिवर्तिताः, प्रवर्धिताः, अग्रेसृताः च | देशं समस्या-मुक्तं विधातुं प्रत्येकमपि स्व-स्व-रीत्या प्रायतत| देशे वृत्तितां वर्धयितुं, निर्धनतां दूरीकर्तुं, विकासम् वितानयितुं च प्रयत्नाः अभूवन्| स्व-स्व-रीत्या परिश्रमः विहितः| सफलता अवाप्ता, अपेक्षा च जागरिता| यथा विगते शताव्दे दविचत्वारिन्शत्तम-वर्षतः सप्त-चत्वारिन्शत्तम-वर्षं यावत् संकल्पतः सिद्धेः निर्णायकत्वेन पञ्चवर्षाणि आसन्, तथैव अहं परिशीलयामि यत् सप्तदशतः आगामि-द्वाविंशतितम-वर्षं हि संकल्पतः सिद्धेः यावत् अपरः पञ्च-वर्षात्मकः काल-खण्डः अस्माकं सम्मुखं समुपस्थितोsस्ति| ऐषमः अगस्तमासीयं पञ्चदश-दिवसं वयं संकल्प-पर्व-त्वेन आयोजयामः, तथा च, आगामि-द्वाविंशतितम-वर्षे यदा स्वतन्त्रता-प्राप्तेः पञ्च-सप्तति-वर्षाणि भवितारः, तदा वयं नूनं तं संकल्पं सिद्धित्वेन एव परिवर्तितारः|  सपाद-शत-कोटि-मिताः देशवासिनः अगस्त-मासीयं नवमं क्रान्ति-दिनं स्मृत्वा ऐषमः अगस्तमासीये पञ्चदश-दिने संकल्पयन्ति यत् व्यक्तिशः वा नागरिकरूपेण, अहं देश-हितार्थम्, एतावत्तु नूनं करिष्यामि, कुटुम्बरूपेण वा समाजरूपेण इदम् आचरिष्यामि, ग्राम-रूपेण वा नगर-रूपेण एतत् विधास्यामि, शासकीय-विभाग-रूपेण एतत् करिष्यामि, प्रशासन-रूपेण इदं वा अनुष्ठास्यामि... !  कोटि-कोटि-मिताः संकल्पाः भवेयुः| एतेषां संकल्पानां परिपूर्णतायै प्रयत्नाः स्युः|  एवं जाते सति, विगते शताव्दे दविचत्वारिन्शत्तम-वर्षतः सप्त-चत्वारिन्शत्तम-वर्षं यावत् देशस्य स्वाधीनतायै संकल्पतः सिद्धेः निर्णायकत्वेन पञ्चवर्षाणि आसन्, तथैव एतत्-सप्तदशतः द्वाविंशति-तम-वर्ष-पर्यन्तं पञ्चवर्षाणि भारतस्य भविष्यत्कृतेsपि निर्णायकत्वेन भवितुं शक्नुवन्ति तथा चैतद् अस्माभिः नूनं करणीयम्| पञ्च-वर्षाणाम् अनन्तरं यदा वयं देशस्य स्वतन्त्रतायाः पञ्च-सप्तति-वर्ष-पूर्तिम् आयोजयिष्यामः| अतः अस्माभिः सर्वैः दृढतया अद्य संकल्पनीयम्, एतत्-सप्तदश-मितं वर्षं अस्माकं संकल्प-वर्षत्वेन करणीयम्| “अस्वच्छते ! भारतं त्यज, निर्धनते ! भारतं त्यज, भ्रष्टाचार ! भारतं त्यज, आतंकवाद ! भारतं त्यज, जातिवाद ! भारतं त्यज,

संप्रदायवाद ! भारतं त्यज,|” एनं संकल्पं नूनं साधयिष्यामः| अद्य आवश्यकमस्ति यत् नूतन-भारतस्य संकल्पेन सह संयोजनं स्यात्| सफलता-प्राप्तये सम्भूय सर्वात्मना पुरुषार्थाचरणं भवेत्| आगच्छन्तु ! ऐषमः अगस्त-मासीये नवम-दिनांके संकल्पतः सिद्धि-पर्यन्तम् एकं महाभियानं प्रवर्तयेम ! प्रत्येकमपि भारतवासी, सामाजिक-संस्थाः, स्थानीयाः निकायाः, तेषाम् एकान्शाः, विद्यालयाः, महाविद्यालयाः, विभिन्नानि संघटनानि च, अभिनव-भारतस्य कृते, प्रत्येकमपि किञ्चिद्-किञ्चिद् संकल्पं विदध्युः| तादृशः संकल्पः यं वयम् आगामिषु पञ्च-वर्षेषु पूर्णतां नेष्यामः, सिद्धञ्च करिष्यामः| युव-संघटनानि, छात्र-संघटनानि, स्वयंसेविसंघटनानि चेत्यादयः सामूहिक-चर्चाम् आयोजयितुं शक्नुवन्ति | नव-नवीनान् विचारान् प्रस्तोतुम् अर्हन्ति| एक-राष्ट्रत्वेन अस्माभिः किं प्राप्तव्यम् ? व्यक्ति-रूपेण तदर्थं मया किन्नाम योगदानं कर्तुं शक्यते ? आगच्छन्तु ! अस्मिन् संकल्प-पर्वणि, वयं समवेताः भवेम !  अधुनातने काले वयं शारीरिक-रूपेण कुत्रचित् भवेम वा न वा, Online World - इति सद्यस्क-सम्बन्धेन नूनं तत्र भवितुं शक्नुमः| विशेषेण, मम युव-सहयोगिनः, मम युवमित्राणि चामन्त्रयामि यत् ते नूतन-भारतस्य निर्माणार्थं नव-नवोन्मेष-रीत्या सहयोक्तुं योगदानञ्च कर्तुम् अग्रे आयान्तु ! प्रविधि-प्रयोग-पुरस्सरं ते video-blog-चेति दृश्याङ्कनान्तर्जालीयालेखन-द्वारा नवनवीनान् विचारान् उपस्थापयेयुः| अभियानमेतत् जनान्दोलनत्वेन प्रवर्तितं स्यात्| NarendraModiApp - इत्यत्र अपि युवमित्राणां कृते Tweet India - प्रश्न-स्पर्धा प्रारप्स्यते| प्रश्न-स्पर्धा एषा युवजनान् देशस्य गौरव-पूर्णेन इतिहासेन साकं संयोजयितुम्, स्वतन्त्रता-संग्रामस्य नायकानां विषये च तान् अवगतान्  विधातुं प्रयास-रूपा अस्ति| आमिनोमि यत् भवन्तः अवश्यमेव एतद्-विषये व्यापकं प्रचारं प्रसारञ्च कुर्युः|

     मम प्रियाः देशवासिनः ! अगस्त-मासीये पञ्चदश-दिनाङ्के राष्ट्रस्य प्रमुख-सेवकत्वेन अहं रक्तदुर्गस्य प्राचीरेभ्यः अशेष-देशेन संभाषितुम् अवसरं प्राप्नोमि| अहन्तु निमित्त-मात्रमेवास्मि| तत्र सः एकः कश्चन जनः नैव अभिभाषते| ततः सपाद-शत-कोटि-देश-वासिनाम् निनादानुगुञ्जनं भवति| तेषां स्वप्नानि शब्द-बद्धानि कर्तुं प्रयत्यते| नूनमहं प्रसीदामि यत् विगत-वर्ष-त्रयात् अनारतं अगस्तमासीय-पञ्चदश-दिनस्य व्याजेन देशस्य विविध-कोणेभ्यः परामर्शान् अधिगच्छामि यत् एतस्मिन् दिने किं किं वक्तव्यमिति ? के के विषयाः उत्त्थापनीयाः ?  संप्रत्यपि परामर्श-प्रदानार्थम् अहं भवतः आमन्त्रयामि| MyGov - उत वा, NarendraModiApp - चेत्यत्र भवन्तः निज-विचारान् माम् अवश्यं प्रेषयन्तु| स्वयमहं तान् विचारान् पठामि, अपि च पञ्चदश-दिने यावान् कालः मम पार्श्वे अस्ति, तस्मिन्नवधौ तान् प्रकटयितुं प्रयतितास्मि| विगतस्य अभिभाषण-त्रयस्य विषये परिदेवनम् एतत् सततम् अवाप्तं यत् ममाभिभाषणं किञ्चित् दीर्घं भवतीति| एतस्मिन् क्रमे, मया विचारितं यत् लघु एव अभिभाषिष्ये ! चत्वारिन्शत्तः पञ्चाशत्-मिनिट्-पर्यन्तं पूर्णतां नयानि ! न जाने कर्तुं पारयिष्यामि वा न वा, परं प्रयत्नं नूनं करिष्यामि|
          मम देशवासिनः ! एकम् अपरं विषयमपि प्रस्तोतुं वाञ्छामि| भारतीयार्थ-व्यवस्थायां सामाजिकम् अर्थशास्त्रं सन्निहितं वर्तते| नैतच्च मनागपि अवहेलनीयम् | अस्मदीयाः उत्सवाः न केवलम् आमोद-प्रमोदार्थं परिगणनीयाः| अस्माकं पर्वाणि अस्मदीयाः उत्सवाः च सामाजिक-परिष्कारस्य अभियान-रूपाः सन्ति| तथा च, युगपदेव, अस्म्दीयाः एते उत्सवाः निर्धनतमस्य आर्थिक-जीवनेन साक्षात् संपृक्ताः सन्ति| कतिपय-दिनानाम् अनन्तरं रक्षाबन्धनम्, जन्माष्टमी, ततः परं गणेशोत्सवः ततः परं चौथ-चन्द्रः, अनन्त-चतुर्दशी, दुर्गापूजा, दीपावलीति एकस्माद् अनुपदम् अपरः उत्सवः समापत्स्यते| अयमेवावसरः यदा निर्धनः आर्थिकोपार्जनं कर्तुमवसरं लभते| तथा च, एतैः उत्सवैः साकं, सहजः आनन्दः अपि संयुज्यते| उत्सवाः, सम्बन्धेषु माधुर्यम्, कुटुम्बे स्नेहम्, समाजे च बन्धुत्वं हि विवर्धयन्ति| एते समाजेन साकं व्यक्तिं संयोजयन्ति| व्यक्तितः समष्टि-पर्यन्तम् एका स्वाभाविकी यात्रा प्रचलति| अहम्-तः वयम्-इत्येवं प्रति गमनस्य महानीयावसरः लभ्यते| अर्थव्यवस्था-विषये तु एतद्-विचारयितुं शक्यते यत् रक्षाबन्धन-पर्वणः आगमनात् प्राक्, नैक-मासेभ्यः शतशः कुटुम्बानि लघु-लघु-गृहोद्योगेषु रक्षा-सूत्राणि विनिर्मातुम् आरभन्ते| खादी-कौशेय-सूत्रैः न जाने कतिविधानि रक्षासूत्राणि विनिर्मीयन्ते ? अपि चाद्यत्वे तु जनेभ्यः home-made- इति गृह-निर्मितानि रक्षासूत्राणि भूरिशो रोचन्ते| रक्षासूत्राणां निर्मातारः विक्रेतारः च, मिष्टान्न-विक्रेतारः प्रभृतीनां लक्षशो जनानां व्यवसायः उत्सवैः संयुक्तो भवति| अस्माकं निर्धनानां भ्रातृ-भगिनीनां कुटुम्बानि एवं रीत्या जीविकां प्रचालयन्ति| दीपावल्याः अवसरे वयं दीपान् प्रज्वालयामः| तदेव प्रकाश-पर्व इति नैव, अस्य पर्वणः साक्षात् सम्बन्धः लघु-लघूनां मृत्तिका-दीपानां निर्मातृभिः निर्धन-कुटुम्बैः साकमपि वर्तते| एवं उत्सव-सन्दर्भे अहं पर्यावरण-विषयेsपि किमपि वक्तुमीहे|
     कदाचिदहं चिन्तयामि यत् ममापेक्षया देशवासिनः समधिकाः जागरुकाः सन्ति| विगत-मासात् अनारतं पर्यावरण-जागरुकैः नागरिकैः मां प्रति अनेकानि पत्राणि प्रेषितानि| साग्रहं ते सूचितवन्तः यत् गणेश-चतुर्थी-पर्वणि echo-frendly- पर्यावरणानुकूलानां गणेश-प्रतिमानां विषये पूर्वमेव जनाः प्रबोधनीयाः | सर्व-प्रथमं एतेषां जागरुक-नागरिकाणां कृते कार्तज्ञ्यमावहामि | साम्प्रतिके काले गणेशोत्सवस्य विशिष्टं महत्वं वर्तते| लोकमान्य-तिलक-वर्येण महती एषा परम्परा प्रवर्तिता| संवत्सरोsयं सार्वजनिकस्य गणेशोत्सवस्य सपाद-शत-वर्षं वर्तते| सपाद-शतं वर्षाणि सपाद-शत-कोटिमिताः देशवासिनः !  लोकमान्य-तिलक-वर्येण यां मूल-भावनाम् आधृत्य समाजस्य एकतायै जागरुकतायै च, सामूहिकतायाः संस्कारार्थं च, सार्वजनिकस्य गणेशोत्सवस्य शुभारम्भः विहितः आसीत्, तदाधृत्य वयं पुनरेकवारं गणेशोत्सवीये वर्षेsस्मिन् निबन्ध-स्पर्धाः आयोजयेम, चर्चा-सभाः करावाम,

लोकमान्य-तिलक-वर्यस्य योगदानञ्च स्मराम ! तां भावनां पुनः प्रबलां विधाय वयं पर्यावरणानुकूलानां मृत्तिका-निर्मितानां गणेश-प्रतिमानां स्वीकरणं करवाम ! विश्वसिमि यत्  भवन्तः सर्वेsपि मया सार्धं संयोजिताः भविष्यन्ति| अस्मदीयाः ये निर्धनाः शिल्पिनः, मूर्ति-निर्मातारः सन्ति ते आजीविकां प्राप्स्यन्ति| आगच्छन्तु ! वयं सर्वे अस्मदीयान् समुत्सवान् निर्धनैः साकं संयोजयेम ! निर्धनस्य अर्थव्यवस्थया संयोजयेम ! अस्मदीय-समुत्सवस्य आनन्दः निर्धनस्य गृहस्य आर्थिकोत्सवः भवेत्, आर्थिकानन्दः भवेत् ! अयमेव अस्माकीनः सार्वजनीनः प्रयासः स्यात् ! भाविनां नाना-समुत्सवानां कृते अहं सर्वेभ्यः देशवासिभ्यः भूरि भूरि मङ्गलकामनाः वितरामि|
      मम प्रियाः देशवासिनः ! वयं सततम् अनुभवामः यत् भवतु नाम शिक्षाक्षेत्रं वा आर्थिक-क्षेत्रम्, स्याद् वा सामाजिकं वा क्रीडा-क्षेत्रम्, अस्मदीयाः बालिकाः राष्ट्रस्य यशोवर्धनं कुर्वन्त्यः अभिनवाः उपलब्धीः अधिगच्छन्ति| वयं सर्वे देशवासिनः अस्मदीयानां आसां बालिकानां कृते अतितरां गौरवम् अनुभवामः| नातिचिरं अस्माकमेताः बालिकाः महिला-क्रिकेट्-विश्व-चषक-स्पर्धायाम् उत्कृष्टं प्रदर्शनं विहितवत्यः| अस्मिन्नेव सप्ताहे एताभिः क्रीडिकाभिः सार्धं सम्मेलनस्य अवसरं लब्धवान्| ताभिः साकं सम्भाषणं कृत्वा सौख्यम् अनुभूतवान् | अहं चिन्तयन् आसम् यत् विश्व-चषक-स्पर्धा नैव विजिता इति कृत्वा ताः आपीडम् अनुभवन्ति इति प्रतीयते स्म| मया उक्तं यत् एतद्-विषये मम पृथक् मूल्याङ्कनं वर्तते| अद्यत्वे संचार-माध्यमानि बलवत्तराणि सन्ति| एतैः अपेक्षाः विवर्ध्यन्ते, ताः पूर्णाः नैव भवन्ति चेत् आक्रोशः एधते एव| भारतीयाः क्रीडकाः यदि विफलाः भवन्ति चेत् देशस्य क्रोधः तेषु एव प्रकटीक्रियते| परञ्च प्रथमवारमेव एतत् सञ्जातं यत् अस्मदीयाः एताः बालिकाः विश्व-चषक-स्पर्धायाम् असफलाः जाताः, तदापि  सपाद-कोटि-देशवासिनः तं पराजयम् आत्मनि स्वीकृतवन्तः| किञ्चिदपि पराजय-पीडां ताः

नानुभवेयुः इति विशेषेण सर्वैः अवधत्तम्| एतावदेव नैव, एताभिः यत्किमपि कृतम्, तत्सर्वं सुबहु प्रशंसितम् | इदं हि सुखदं परिवर्तनमिति परिभावयामि| मया ताः उक्ताः यदेतादृशं सौभाग्यं केवलं युष्माभिरेव अवाप्तम्| सत्यमेव अस्मदीया एषा युव-संततिः अस्स्मदीयाः एताः बालिकाः देशस्य यशोवर्धनार्थं सुबहु प्रयतन्ते|  पुनरेकवारं अहं देशस्य युव-जनेभ्यः विशेषेण च, अस्मदीयाभ्यः बालिकाभ्यः च हृदयेन भूरि-भूरि वर्धापनानि व्याहरामि| मङ्गल-कामनाः च वितरामि|
   मम प्रियाः देशवासिनः ! पुनरेकवारं स्मारयामि अगस्त-क्रान्तिम्| पुनरेकवारं स्मारयामि अगस्तमासीयं नवम-दिनाङ्कं पुनरेकवारं स्मारयामि अगस्त-मासीयं पञ्चदश-दिनं पुनरेकवारं च स्मारयामि आगामि-द्वाविशंतितमं वर्षं स्वतन्त्रता-प्राप्तेः पञ्च-सप्तति-वर्षाणि| प्रत्येकमपि देशवासी संकल्पयेत्, प्रत्येकमपि देशवासी संकल्पं सिद्धीकर्तुं पञ्चवर्षात्मिकां योजनां विरचयेत्| वयं सर्वेsपि सम्भूय देशं नूतनोपलब्धि-समन्वितं    करवाम, सततञ्च अग्रेसरेम ! राष्ट्रम् उच्छ्रिततमे शिखरे संनयेम ! आगच्छन्तु ! वयं संगच्छेम ! किञ्चित् किञ्चिदपि कार्यान्वयनं अनुतिष्ठेम ! देशस्य भाग्यं भविष्यच्च उत्तमोत्तमं नूनं भविष्यति | अमुना विश्वासेन साकमेव अग्रेसरेम ! भूरिशो मङ्गल-कामनाः| धन्यवादः !!!