OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, August 6, 2017

उन्मादमोहे युवानौ द्विसहस्रपादमितां निम्नताम् प्रति पतित्वा मृतौ।
     मुम्बै>मदिरोन्मादे गिरिशिखरे विवेकशून्यसाहसाय उद्यतौ युवानौ द्विसहस्रपादमितां निम्नताम् प्रति पतित्वा मृतवन्तौ। महाराष्ट्राया: सिन्धुदुर्गमण्डले अम्बोलिघट्टनामके विनोदसञ्चारकेन्द्रे सोमवासरे अयमपघात: समभवत्। इतरे विनोदसञ्चारिण: अपघातदृश्यम् चित्रीकृतवन्त:, यच्च समाजमाध्यमेषु इदानीं व्यापकतया प्रचरति। पश्चिममहाराष्ट्राया: कोलापुरात् आगतौ प्रतापराथोड:(२१), इम्रान खराडि:(२६) इत्येतौ मृतवन्तौ। सप्ताङ्गसंघस्थाः इतरे  प्रतिनिवर्तनाय निश्चितवन्त: चेदपि एतौ द्वावपि किञ्चिदपि समयं तत्रैव स्थातुं निश्चितवन्तौ। गिरिशिखरात् अध: न पतेयु: इति कृत्वा सुरक्षासीमारोधः निर्मित:। एतस्य उपरि  द्वावपि बहुवारं आरोढुं प्रयतितौ जडमन्दतया भूमौ पतितवन्तौ । अन्ते यथाकथञ्चित् सीमान्ते उपवेष्टुं शक्तवन्तौ। पुनरपि मदिरापानासक्तौ हस्तप्रसारै: उच्चै: कूजमानौ च नष्टनियन्त्रणौ तौ अध: निम्नतामपतताम्।