OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, August 25, 2017

जङ्गमदूरवाणीद्वारा आह्वानव्यय: इतोपि न्यूनीक्रियते।।
     नवदिल्ली> राष्ट्रे डङ्गमदूरवाणीद्वारा आह्वानव्यय: पुनरपि न्यूनीभवेत्। एकस्मात् जालसङ्केतात् (नेट् वर्क्) अपरम् प्रति आह्वानावसरे स्वीक्रियमाण: अन्योन्यसम्पर्कोपयोगव्यय: ( इन्टर् कणक्ट् यूसेज् चार्ज्)( ऐ यू सी)  घट्टं घट्टमिति रीत्या अस्तं कर्तुमेव ट्राय् श्रम:। अधुना मिनिट्मितोपयोगाय चतुर्दशपैसा उपयोक्तृभ्य: ऐ यू सी नाम्ना जङ्गमदूरवाणीसेवनदातार: स्वायत्तीकुर्वन्ति। प्रथमघट्टे एतत् सप्त पैसा तत: पैसात्रयमिति रीत्या न्यूनीकर्तुमेव आलोच्यन्ते तै:। अग्रिमघट्टे व्यय: एव निष्कास्यते च। जियोसङ्केतस्य अधिनिवेश: एव नूतननिर्णयस्य पृष्ठत: इति सूचना अस्ति। जियो स्वोपभोक्तॄणां कृते कञ्चिदपि जालसङ्केतम् प्रति नि:शुल्कशब्दाह्वानसौकर्यमेव ददाति। एतेनैव ऐ यू सी न्यूनीकर्तुं ट्राय् निरणयत्। जियोप्रवेशात्पूर्वम् ऐडिया, वोडफोण्, एयर्टेल् इत्यादिसंस्था: ऐ यू सी नाम्ना कोटिरूप्यकाणि उपयोक्तृभ्य: स्वायत्तीकृतवन्त:। राष्ट्रस्य दूरवाणीभीम: एयर्टेल् गतवर्षे उपयोक्तृभ्य: ऐ यू सी नाम्ना नवसप्तत्युत्तरद्विशतोत्तरदशसहस्रं कोटिरूप्यकाणि स्वायत्तीकृतवन्त:। एतदेव न, ऐ यू सी व्यय: वर्धनीय: इति पक्ष: एयर्टेल् सङ्केतस्य। एतत् संसूच्य एतै: ट्राय् अध्यक्षम् प्रति पत्रम् प्रेषितं च। किन्तु एतत् कार्यम् अपरिगण्य पुनरपि व्ययं न्यूनीकर्तुमेव ट्राय् निर्णयं स्व्यकरोत्। एवं तर्हि शब्दाह्वानानां कृते  स्वीक्रियमाण: व्यय: झटिति न्यूनीभवेत्।