OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, August 26, 2017

श्रावणोत्सवस्य आगमनं सूचयित्वा तृप्पूणित्तुरायां हस्ताघोष:।।
  
केरलीयानां देशीयोत्सवस्य श्रावणोत्सवस्य आगमनं सूचयित्वा तृप्पूणित्तुरायां हस्ताघोष: प्राचलत्। हस्तनक्षत्रादारभ्य श्रावणनक्षत्रपर्यन्तं दश दिनानि केरलीयानां कृते समृद्धे: सन्तोषस्य च दिनानि भवन्ति। तन्माहात्म्यं घोषयित्वा एव हस्ताघोष: प्रचाल्यते। राजशासनकालादारभ्य  तृप्पूणित्तुरायां हस्ताघोष: प्रचाल्यते एव। श्रावणोत्सवकाले प्रजानां कुशलमन्वेष्टुं राजा सपरिवारं नगरमार्गेण वाद्यवृन्दसमेत: प्रयाति स्म। राजभवनात् ( हिल् पालस्- कुन्नुम्मल् कोट्टारम्) प्रस्थिता सा यात्रा नगरम् परिक्रम्य राजभवने एव परिसमाप्तिं गच्छति स्म। तस्य स्मरणायामेव हस्ताघोषे विशिष्य एका घोषयात्रा अपि भवति। नगरसभाधिकारिण: घोषयात्राविषये अधुना नितरां जागरूका: एव। प्रादेशिकशासका:, नगरसभाधिकारिण:, समीपस्थविद्यालयच्छात्रा: अध्यापका:, कलाकारा: कलाकायिकसमितीनाम् प्रतिनिधय: विभिन्नसंस्था:, कुटुम्बश्रीप्रवर्तका: च घोषयात्रायाम् भागं वहन्ति। केरलस्य प्रशस्तानि कलारूपाणि (तेय्यम्,तिरा,पटयणी) विद्यालयच्छात्राणां पङ्क्तिप्रयाणम् ( मार्च् पास्ट्), आरक्षकाणां पङ्क्तिरूपेण पुर: प्रयाणम्, विभिन्नसमितीनां सामाजिकसमस्या: अवलम्ब्य सज्जीकृतानि निश्चलदृश्यानि (टाब्लो-  भारवाहकेषु मनुष्या: एव निश्चला: स्थित्वा), गजवीरा: वाद्यवृन्दश्च घोषयात्राया: सौन्दर्यं वर्धयन्ति। जाति- मत- वर्ग- लिङ्गभेदं विना हस्तघोषयात्रा जनमनांसि रञ्जयन्ती तृप्पूणित्तुराम् परिक्रम्य गच्छति। केरले श्रावणोत्सव: तृप्पूणित्तुरा हस्तघोषयात्रया एव समारब्धा भवति।