OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, August 28, 2017

छात्रान् रक्षितुम् स्फोटकं (बोम्ब्) गृहीत्वा आरक्षक: धावित: एकं किलोमीटर् मितं दूरम्।।
  भोपाल:> उपचतुश्शतं छात्राणां जीवरक्षणाय विद्यालयात् प्राप्तस्फोटकं गृहीत्वा एकं किलोमीटर् मितं दूरं धावितवते आरक्षकाय राष्ट्रस्य नमोवाक:। मध्यप्रदेशस्य सागरमण्डले प्रवृत्ता घटनेयम्। शुक्रवासरे सायं सागरारक्षणकार्यालयम् प्रति स्फोटकभीषणसन्देशेन सह अज्ञातदूरवाणीसन्देश: आगत:। आरक्षकक़ेन्द्रपरिधौ विद्यमाने चित्तोरस्य विद्यालये स्फोटकं स्थापितम् इत्यासीत् सन्देशसार:। जवेन विद्यालयम् प्रति प्रस्थितेन आरक्षकसङ्घेन विशदान्वेषणात्परं स्फोटकम् प्राप्तम्। दशकिलोत: अधिकभारयुतम् आसीत् स्फोटकम्। विद्यालयसमयसमाप्तौ  घण्टाद्वये शिष्टे छात्राणां जीवरक्षणाय सागरारक्षणकेन्द्रस्य आरक्षक: अभिषेक पटेल: बोम्बस्फोटकं गृहीत्वा विजनप्रदेशम् प्रति अधावत्। तन्मध्ये विद्यालयं किञ्चित् कालं यावत् पिधातुम् अधिकारिणां कृते निर्देश: दत्त: आरक्षकै:। घटनामधिकृत्य सूचनायाम् प्राप्तायां विद्यालयम् प्राप्त: माध्यमसङ्घ: एव स्फोटकं गृहीत्वा धावत: आरक्षकस्य चित्रं अगृह्णात्। दृश्यमेतत् समाजमाध्यमेषु प्रचुरप्रचारमाप्तम्। छात्राणां विद्यालयसमीपवासिनां च जीवरक्षणमित्येव अनन्यमुद्देश्यं तस्मिन्नवसरे स्वस्य आसीदिति अभिषेकपटेल: माध्यमान् अवदत्। पूर्वमपि एवम् बोम्बनिरीक्षणारक्षकसङ्घे अभिषेक: अङ्गमासीत्। बोम्बस्फोटनेन पञ्चाशतमीटर् परिधौ दुरन्त:सम्भवेत् इति तदा श्रुतम्। अत: यावता वेगेन विजनस्थानकमेतत् स्फोटकम् प्रापणीयमित्यासीत् धावनलक्ष्यम्-- पचारमाप्तं धावनं सूचयित्वा अभिषेक: वदति।।