OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, August 7, 2017

अयि भो: बाला:! सम्यक् पठन्तु; नो चेत् पराजिताः भवन्ति ।
नवदिल्ली>अष्टम-कक्ष्यापर्यन्तम् कथञ्चित् लुण्ठनं कृत्वा जयप्राप्ति: मानरक्षा च भवति इति न विचारयतु। किंतु इतःपरं तादृशी चिन्ता- मास्तु। अग्रे न सम्यक् पठन्ति तर्हि पञ्चम्याम् अष्टम्यां च पराजिता: भवेयु:। "अष्टमकक्ष्यापर्यन्तं सर्वान् उत्तीर्णान् कुर्वन्तु" इति पूर्वानुष्टानक्रमं परिवर्तयितुं केन्द्रसर्वकारेण अनुमतिर्दत्ता। स्तरानुगुणं नागतान् छात्रान् पञ्चम्याम् अष्टम्यां च पराजितान् कर्तुं राज्येभ्य: अनुमतिदानाय तत्सम्बन्धिनियमेषु परिवर्तनं करिष्यति। किन्तु अनुत्तीर्णताया: पूर्वम् एकवारमपि छात्रेभ्य: परीक्षालेखनाय सन्दर्भः कल्पयिष्यति। शिक्षाधिकार-नियमानुसारम् अधुना अष्टमकक्ष्यापर्यन्तं स्वाभाविकतया एव सर्वे छात्रा: उत्तीर्णा: भवन्ति। दशोत्तरद्विसहस्रतमे प्रवृत्तिपथमागतस्य शिक्षाधिकारनियमस्य प्रधानाङ्गभूत: नियम: अयमेवासीत्। परन्तु, एष नियम: छात्राणाम् मूल्यच्युतये कारणमभवदिति विमर्शने जाते एव परिवर्तनम् आनेष्यति।