OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, August 24, 2017

भारतीयसंस्कृतेः पूर्णावबोधाय संस्कृतभाषाज्ञानम् अनिवार्यम् - डॉ. धर्मराज् अटाट्ट्। 
कालटी > विश्वे$स्मिन् अतुल्या अनुपमा च संस्कृतिः भवति भारतीयसंस्कृतिः । तादृश्याः भारतीयसंस्कृतेः पूर्णावबोधाय संस्कृतभाषाज्ञानम् अत्यन्तापेक्षितमिति कालटी श्रीशङ्कराचार्यसंस्कृतविश्वविद्यालयस्य उपकुलपतिना डो.धर्मराज् अटाट्ट्वर्येण उक्तम्। विश्वविद्यालयेन आयोजितं संस्कृतदिनाचरणम् उद्घाटनं कुर्वन् भाषमाणः आसीत् अटाट्ट् वर्यः।
     सम्मेलने$स्मिन् विविधमण्डलेषु प्रागल्भ्यं प्रकाशितवतां त्रयाणां पण्डितानां समादरणमपि संवृत्तम्। संस्कृतमण्डलात् विश्वविद्यालयस्य भूतपूर्वा   न्यायविभागाध्यक्षा डो. टि आर्यादेवी, कलाकारेभ्यः पाणिवादतिलकः डो. पि से नारायणन् नम्प्यारः, आयुर्वेदमण्डलात् प्रसिद्धः आयुर्वेदभिषग्वरः आवणप्परम्प् महेश्वरन् नम्पूतिरिप्पाट् च विश्वविद्यालयेन समाद्रियन्ते स्म। डो. पि सि मुरलीमाधवः मुख्यभाषणमकरोत्।