OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, December 10, 2019

जाग्रतानिर्देशः तृणवत्कृतः। 
न्यूसिलान्टे अग्निपर्वतस्फोटनेन बहवः अप्रत्यक्षाः।
वेल्लिङ्टण् >  न्यूसिलान्ट् राष्ट्रे 'वैट् एेलान्ट्' नामके प्रदेशे अग्निपर्वतस्य  विस्फोटनेन बहवः विनोदसञ्चारिजनाः अप्रत्यक्षाः अभवन्। सोमवासरे प्रादेशिकसमयमनुसृत्य  मध्याह्ने सपादद्विवादने आसीदेषा दुर्घटना। तत्समये उपशतं जनाः तत्र सन्निहिताः तेषु अनेके अप्रत्यक्षा इति प्रधानमन्त्रिणा जसीन्ता आर्डेण् महाभागया निगदितम्। 
  वैट् ऐलान्ट् प्रदेशस्थः अग्निपर्वतः विस्फोटनप्रायः, अतः तत्स्थानं न सन्दर्शनयोग्यमिति आरक्षकैः शास्त्रज्ञैश्च  जाग्रतानिर्देशः कृतः आसीत्। तं तृणवत्कृत्वा एव विनोदसञ्चारिणः वैट्लान्टं प्राप्तवन्तः।