OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, December 25, 2019

भारते राष्ट्रियजनसंख्या पञ्जिकायै केन्द्रमन्त्रिसभायाः अनुमतिः।
-के.वि.रजीष्
     नवदहली> राष्ट्रियजनसंख्या पञ्जिकायै प्रधानमन्त्रिणः आध्यक्षे संवृत्तः मन्त्रिसभायोगः अनुमतिः दत्ता। २०२० मार्च्मासात् सितम्बर्मासपर्यन्तं  राष्ट्रे पूर्णतया जनसंख्यागणनाकार्यक्रमः प्रचलिष्यति। २०२१ तमे वर्षे अन्तिमं जनसंख्यागणनाफलं प्रकाशयिष्यति। एतदर्थं ८७५४ कोटिरुप्यकाणि दीयन्ते च। जनसंख्यापञ्चीकरणाय जङ्गमदूरवाणी-प्रयोगसंविधानं सज्जीकरिष्यतीति केन्द्रमन्त्री प्रकाश् जावदेकर् अवदत्। एतदर्थं जनैः या कापि रेखा वा न समर्पणीया इत्यपि मन्त्री असूचयत्। राष्ट्रिय-नागरिकत्वगणनायाः राष्ट्रिय-जनसंख्यापञ्जिकया सह सम्बन्धः नास्ति इति केन्द्रसर्वकारपक्षतः मन्त्रिणा सूचितम्। एवमेव राष्ट्रस्य विविधसेनाविभागानाम् संयोजनाय प्रतिरोधसेनाधिपस्य नियुक्तये च मन्त्रिसभायोगे निर्णयः स्वीकृतः वर्तते। भूगर्भजल-विनियोगाय 'अडल् जल्' इति नाम्ना सविशेषपरियोजनायै अपि मन्त्रिसभायोगः अनुमतिः दत्ता च।