OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, December 20, 2019

पौरत्वप्रमाणीकरणं ललितम् - भारतसर्वकारः।
-के.वि.रजीष्‌
      नवदहली> राष्ट्रियपौरत्वप्रमाणीकरणविषये कस्यापि आशङ्का नावश्यकी इति भारतस्य आभ्यन्तरमन्त्रालयेन उक्तम्। पौरत्वप्रमाणीकरणाय निर्वाचनप्रक्रियायाः प्रत्यभिज्ञानपत्रं, आधार् पत्रं, विदेशयात्राधिकारपत्रं, चालकाधिकारपत्रं, रक्षाभोगप्रमाणपत्रं, जननप्रमाणपत्रं, भूमेः जन्माधिकारपत्रं, विद्यालयीयं प्रमाणपत्रं, सर्वकारेण दीयमानानि अन्यानि प्रमाणत्राणि च उपयोक्तुं शक्यन्ते इति भारतस्य आभ्यन्तरमन्त्रालयेन स्पष्टीकृतम्।
      पौरत्वप्रमाणीकरणाय पुरातनप्रमाणपत्राणि न समर्पणीयानि इत्यपि मन्त्रालयेन सूचितम्। अपि च परिष्कृतस्य राष्ट्रियपौरत्वनियमस्य संस्थापने भारतसर्वकारस्य कापि आशङ्का नास्ति इति आभ्यन्तरमन्त्रिणा अमित् षा महोदयेन प्रस्तावितम्।