OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, December 23, 2019

भारत-वेस्ट् इन्टीस्दलयोः एकदिनात्मकक्रिकेट् परम्परायां भारतस्य विजयःI
-के.वि.रजीष्।

    कट्टक्> भारत-वेस्ट् इन्टीस्दलयोः एकदिनात्मकक्रिकेट् परम्परायाः अन्तिमक्रीडायां भारतस्य ४ क्रीडकानां विजयः। जयेनानेन एकदिनात्मकक्रिकेट् परम्परापि (२-१) भारतदलेन जिता वर्तते। ३१६ धावनाङ्कानां विजयलक्ष्यम् अनुगम्य प्रतिक्रीडनमारब्धं भारतदलं ४८.४ ओवर् मध्ये लक्ष्यं प्रापत्। भारतदलस्य कृते आरम्भकक्रीडकाभ्याम् शुभारम्भः दत्तः। रोहित् शर्मणा (६३) लोकेष् राहुलेन (७७) च प्रथमक्रीडकसहयोगे १२२ धावनाङ्काः प्राप्ताः। नायकेन विराट् कोह्लिना ८५ धावनाङ्काः प्राप्ताः। अपराजिते सप्तमे सहयोगे जडेजः (३९*) शर्दुल् ठाकुरः (१७*) च ३० निर्णायकान् धावनाङ्कान् समपादयताम्। वेस्ट् इन्टीस् दलाय नायकः कीरोण् पोलार्ड् (७४) निकोलास् पूरन् (८९) च उत्तमं प्रकटनम् अकुरुताम्।