OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, December 16, 2019

प्रथमैकदिनक्रीडायां वेस्ट् इन्टीस् दलस्य विजयः।
      चेन्नै> भारत-वेस्ट् इन्टीस् दलयोः एकदिनक्रिकेटपरम्परायाः प्रथमक्रीडायां वेस्ट् इन्टीस् दलेन ८ क्रीडकैः भारतं पराजितम्। हेट्‌ मेयर् (१३९),षाय् होप् (१०२*) इत्यनयोः शतकप्रकटनं वेस्ट् इन्टीस्दलस्य विजयं सुकरमकरोत्। निकोलास् पूरन्(२९*) उत्तमं सहयोगम् अकरोत्। प्रथमं कन्दुकताडनं कृत्वा रिषभ् पन्त्(७१),श्रेयस् अय्यर्(७०) इत्यनयो: अर्धशतकप्रकटनेन केदार् जादवस्य(४०) सहयोगेन च भारतदलं ८ क्रीडकानां नष्टेन २८७ धावनाङ्कान् समपादयत्। प्रतिक्रीडनवेलायां वेस्ट् इन्टीस्दलं २ क्रीडकयोः नष्टेन ४७‌.५ ओवर् मध्ये लक्ष्यं प्रापत्।