OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, October 4, 2018

कृषकपथसञ्चलनम् अवरुद्धं , संघर्षः, चर्चा पराजिता।
    नवदिल्ली  >  केन्द्रसर्वकारस्य कार्षिकनयान् विरुद्ध्य 'भारतीय किसान् यूणियन्' संघटनेन दिल्लीं प्रति आयोजितं प्रतिषेधपथसञ्चलनं उत्तरप्रदेशसीमायां गासियाबादे अवरोद्धुं  आरक्षकदलेन कृतः यत्नः संघर्षे समाप्तः। आरक्षकाणां दण्डप्रयोगेन बाष्पोद्गमशस्त्रप्रयोगेन च  नैकाः कृषकाः सप्त आरक्षकाश्च व्रणिताः। आन्दोलनव्यापनसाध्यतां परिगण्य पूर्वदिल्ल्यां निरोधनाज्ञा प्रख्यापिता।
     सेप्तम्बर् २३ दिनाङ्के आसीत् उत्तरप्रदेशः हरियाणा राज्येभ्यः 'किसान् क्रान्ति यात्रा' नामकं पथसञ्चलनम् आरब्धम्। गान्धिजन्मदिने राजघट्टं प्रवेष्टुम् उद्यमः निरुद्धः। दिल्ली-गासियाबादराजमार्गं विप्रतिबन्धकैः आरक्षकाः निरोधितवन्तः। अत एव संघर्षः जातः।
     कृषकाणाम् अपेक्षाः - एम् एस् स्वामिनाथन् आचरणस्य आदेशाः पालनीयाः , इक्षुकृषकाणां कृते पेषणशालास्वामिभिः दातव्यानि अनशिष्टदेयानि लब्धुं सर्वकारक्रियाविधिः भवितव्यः, कार्षिकर्णं अपाकुरुत, इन्धनमूल्यम् ऊनीकुरुत इत्यादयः।