OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, October 28, 2018

धर्मपरिवर्तनं विरुद्ध्य  अतिशक्तं सन्देशं दत्तवानासीत्  श्रीनारायणगुरुः इति अमित् षा।
-बिजिलाकिषोरः

  शिवगिरिः > अधस्थ वर्गे जातेन श्रीनारायणगुरुणापि धर्मपरिवर्तनं रूक्षतया विमर्शितमिति भारतीय जनतादलस्य  राष्ट्रियाध्यक्षः अमित्षा महाभागः अवोचत्। शिवगिरौ प्रवृत्ते श्रीनारायणगुरोः महासमाधि दिनाचरणे भाषमाणः आसीत् अयं महाभागः। हिन्दुसंस्कृतिः, देशस्य परम्परागतविश्वासः, भाषा, साहित्यं च महात्मना पुनरुज्जीवनं कृतमिति हेतोः अधुना हिन्दुसमूहः सुरक्षितं जातमिति  तेन अभिप्रेतम्।
शिक्षया  विकसन्तु, सङ्घटनया शक्ताः भवन्तु, व्यवसायेन समृद्धाः भवन्तु इति तेन जनाः उपदिष्टाः। संस्कृतभाषा मातृभाषया सह प्रसारयितुमपि तेन प्रयत्नं कृतम् । नारायणगुरुतुल्यं अन्यं पुरुषं इतः पर्यन्तम् अहं न दृष्टवान् इति रवीन्द्रनाथटागोरस्य वचनं तेन स्मारितम्‌।