OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, October 17, 2018

संस्कृतमेवजीवनम्-आमुखपटले संस्कृतज्ञानप्रश्नोत्तरी- प्रतियोगिता सम्पन्ना
     सीवान(बिहारप्रान्त)। मानवमात्रस्य प्राचीनतमः इतिहासः संस्कृतभाषायामेव सुरक्षितः। एषा भाषा ज्ञानेन विज्ञानेन च पूर्णा वर्तते। अद्यापि भारतीयजीवने संस्कृतभाषायाः अपरिमित प्रभावो$वलोक्यते। संस्कृतभाषायाः प्रचाराय प्रसाराय च रविवासरे संस्कृतमेवजीवनम् -आमुखपटले संस्कृतज्ञानप्रश्नोत्तरी प्रतियोगिता आयोजिता।बिहारस्य सीवानतः डा० सुशील नारायण तिवारीवर्यः अस्याः प्रतियोगितायाः आयोजकः।डा० तिवारीवर्यः उक्तवान् यत् संस्कृतभाषायामेव ज्ञानविज्ञानयोः निधिः विद्यते।अस्माकं प्राचीन - मौलिक-संस्कृतिरस्यामेव प्रतिबिम्बिता दृश्यते।न तु केवलाः भारतीयाः प्रत्युत् पाश्चात्याः विद्वांसो$पि संस्कृतं श्रद्धावन्तः सन्ति।प्रतियोगितायाः सञ्चालनं महेशकुमारेण कृतम्। प्रतियोगितायां सहयोगं दीपकवात्स्यः महेशकुमारश्च कृतवन्तौ।
 विजयकुमारशर्मा, प्रथमः|                      सुनीलकुमारशर्मा, द्वितीयः|                 रजनीशकुमारपाण्डेयः ,तृतीयः|
          भौमवासरे(१६/१०/१८) पुरस्कारस्य उद्घोषणा अभवत्। तत्र प्रथमस्थाने विजयकुमारशर्मा (हरियाणातः), द्वितीयस्थाने सुनीलकुमारशर्मा(राजस्थानतः), तृतीयस्थाने रजनीशकुमारपाण्डेयः (विहारतः) क्रमशः वर्तन्ते। समेभ्यः विजेतृभ्यः पुरस्कारप्रायोजकेन चिन्मयसुशीलेन(विहारतः) पुरस्कारत्वेन अतीवोपयोगिपुस्तकानि दास्यन्ते।