OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, October 5, 2018

एस् ४०० विमानवेधप्रक्षेपास्त्राणि भारत - रूस् सन्धिपत्रहस्ताक्षरीकरणम् अस्मिन् सप्ताहे।
     नवदिल्ली >  भारतं रूस् राष्ट्रात्  कोटिशः रूप्यकाणां  विमानवेधप्रक्षेपास्त्राणि क्रीणीतुं सन्धिपत्रे हस्ताक्षरीकरणाय सिद्धमिति रूस् राष्ट्रेण स्थिरीकृतम्। रूस् राष्ट्रपतेः व्लादिमिर् पुतिनस्य भारतसन्दर्शनवेलायां पञ्चशताधिकं कोटिडोलर् मितानाम् अभिसन्धौ हस्ताक्षरं क्रियते। तद्राष्ट्रेण २००५ तमे संवत्सरे  विकसितानि 'एस् - ४०० ट्रयम्फ्' नामकानि पञ्च  विमानवेधप्रक्षिपास्त्राणि एव भारतेन क्रेतुम् उद्दिष्टानि।
    ४०० कि मी परिमिते वर्तमानानि ३०० लक्ष्यान् एकस्मिन्नेव समये प्रत्यभिज्ञातुं तथा ३६ शत्रुविमानानि एकस्मिन् काले एव पातयितुं च शक्यानि भवन्ति एतानि मिसैल् शस्त्राणि। ओक्टोबर् ४, ५ दिनाङ्कयोरेव पुतिनस्य भारतसन्दर्शनम्। रूस् शासनात् युद्धमहानौकाः अपि क्रीणातुं सन्धिपत्रं  भविष्यतीति उच्यते।