OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, October 13, 2018

ए टि एम् यन्त्राणि प्रभञ्ज्य ३५ लक्षं रूप्यकाणि चोरितानि। 
   ए टि एम् यन्त्राणि प्रभञ्ज्य ३५ लक्षं रूप्यकाणि चोरितानि। 
कोच्ची  >  केरले द्वयोः जनपदयोः राजवीथीपार्श्वे वर्तमानानि धनपूरितानि 'ए टि एम्' यन्त्राणि भञ्जयित्वा एकस्यामेव निशायां पञ्चत्रिंशत् लक्षं रूप्यकाणि अपहृतानि। तृश्शिवपेरूर् , एरणाकुलं जनपदस्थयोः द्वे एटिएम् यन्त्रे 'ग्यास् कट्टर' नामकमुपकरणमुपयुज्य भञ्जनं कृत्वा एव ३५ लक्षं रूप्यकाणि स्तेयानि। कोट्टयम् एरणाकुलं जनपदस्थेषु इतरेषु ए टि एम् यन्त्रेष्वपि चौर्यश्रमः तस्यामेव रात्रौ  कारितः च। 
     सर्वेषां लुण्ठनश्रमाणां पृष्ठतः एक एव संघः प्रवर्तित इति सि सि टि वि दृश्यैः अनुमातुं शक्यत इति आरक्षकाधिकारिभिः उक्तम्। एरणाकुलस्थे इरुम्पनं प्रदेशस्थात् एस् बि ऐ वित्तकोशस्य  धनस्वीकरणयन्त्रात् २५ लक्षं , तृश्शूर् कोरट्टी स्थानात् यन्त्रात् [सौत्तिन्ड्यन् बैंक् ए टि एम्] १०.६० लक्षं रूप्यकाणि च चोरितानि। चोराः इतरराज्यस्थाः इति आरक्षकाणां प्राथमिकनिगमनम्। 
    कोट्टयस्थात् चोरितेन केनचित् ट्रक् यानेन चतस्रः होराः अटनं कृत्वा एव लुण्ठकाः चौर्यं कृतवन्तः इति अनुमीयते। चोरितं यानं चालक्कुटी प्रदेशे त्यक्तरूपेण दृष्टममस्ति।