OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, October 17, 2018

नवकेरलनिर्माणाय आर्थिकसमाहरणं -  मन्त्रिणां विदेशगमनम् अपाकृतम्। 
    मुख्यमन्त्री अद्य यू ए ई राष्ट्रं प्रतिष्ठति। 
अनन्तपुरी  >  प्रलयदुरितानन्तरं नवकेरलनिर्माणाय प्रवासिकेरलीयेभ्यः आर्थिकयोगदानं समाहर्तुं केरलस्य १७ मन्त्रिणां विदेशयात्रा अपाकृता। मुख्यमन्त्रिणं विहाय अन्येषां सर्वेषां मन्त्रिणां विदेशयात्रायै केन्द्र विदेशमन्त्रालयस्य अनुज्ञा न लब्धा इत्येव हेतुः। मुख्यमन्त्री पिणरायि विजयः अद्य यू ए ई राष्ट्रं प्रति प्रस्थास्यति। 
     मुख्यमन्त्रिणं विना १७ मन्त्रिणः विदेशगमनार्थं केन्द्रसर्वकारस्य अनुज्ञायै अपेक्षिताः यात्रार्थं सन्नद्धाः च  आसन्। किन्तु  मन्त्रिणां सन्दर्शनम् आयोजितवत्यः प्रवासिकेरलीयसंस्थाः नैकाः अपञ्जीकृताः अनङ्गीकृताः वा इति कारणेन आसीत् केन्द्रसर्वकारस्य अनुज्ञातिरस्कारः।